भाषावृत्तिः/अष्टमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
द्वितीयः पादः →

-8-1-1- सर्वस्य द्वे ।।
अधिकारोऽयम्। सर्वस्य द्विरुक्तिर्वाच्या।
-8-1-2- तस्य परमाम्रेडितम् ।।
द्विरुक्तस्य यत् परं तदाम्रेडितमुच्यते। यथा कानाम्रेडिते कांस्कान् भोजयति।
-8-1-3- अनुदात्तं च ।।
छान्दसम्।
-8-1-4- नित्यवीप्सयोः ।।
नित्येऽर्थे वीप्सायाञ्ञ्च यः शब्दो वर्त्तते तस्य सर्वस्य द्वे स्याताम्। आभीक्ष्ण्यं नित्यता। सा च तिडव्ययकृत्सु। पचति पचति पचति। प्रपचति प्रपचति। भुक्त्वा भुक्त्वा याति। नदीमवस्कन्दमवस्कन्दमुपस्पृशति। भोजं भोजं व्रजति। लुनीहि लुनीहीत्येवायं लुनाति।
युगपद्व्याप्तुमिच्छा वीप्सा। सा च सुप्सु। गृहे गृहेऽश्वाः। नदीं नदीमवस्कन्दमुपस्पृशति। ग्रामो ग्रामो रमणीयः।
इहाढ्यतरमाढ्यतरमानयोति जातप्रकर्षप्रत्ययस्य द्विरुक्तिरिष्यते। तिङश्च (5.3.56) इत्यतस्तु परत्वात् द्विरुक्तिरेव प्राक्। ततः प्रकर्षप्रत्यय इत्येके। पचतिपचतितरामिति।
इह क्वचिद् वृत्तावुक्तार्थत्वाद् द्विरुक्ति र्निवर्त्तते। द्वौ द्वौ पदौ ददाति
द्विपदिकां ददाति। द्वौ द्वौ देहि द्विशो देहि। सप्त सप्त पर्णान्यस्य सप्तपर्णः। कुलं कुलमटति कुलटा।
क्वचिदुक्तार्थस्यापि प्रयोगः--एकैकशो देहि, अन्योनयसहाया इति।
-8-1-5- परेर्वर्जने ।।
अस्यात्र द्वे स्याताम्।
। असमासे वेति वक्तव्यम् ।। परि परि त्रिगर्त्तेभ्यः वृष्टो देवः। परि त्रिगर्त्तेभ्यः वा।
समासे न स्यात्--परित्रिगर्त्तम्।
वर्जमे किम् ? वृक्षं परिसिञ्ञ्चति। त्रिगर्त्तान् परिषिञ्ञ्चति।
-8-1-6- प्रसमुपोदः पादपूरणे ।।
इति छान्दसं सूत्रम्।
-8-1-7- उपर्यध्यधसः सामीप्ये ।।
एषामत्र द्वे स्याताम्। उपर्युपरि ग्रामम्। अध्यधि कुलम्। अधोऽधो ग्रामम्।
सामीप्ये किम् ? सर्वस्योपरि चन्द्रमाः।
-8-1-8- वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनर्भत्सनेषु ।।
असूयादौ यद्वाक्यं तदादेरामन्त्रितस्य द्वे स्याताम्। भीम भीम रिक्तं तवाभिजात्यम्। सम्मतौ--अर्जुनार्जुन शोभनः खल्वसि। एवं कोपादौ।
स्वरितमाम्रेडिते इति प्लुतो नोदाह्रियते, भाषायामप्रचारात्।
-8-1-9- एकं बहुव्रीहिवत् ।।
एकम् इत्येतद् द्विरुक्तं बहुब्रीहिवत् स्यात्। सुब्लुक् पुंवत् कार्यं स्यात्। एकैकः। एकैकशो विनिघ्रन्ति विषयाः। एकैकमक्षरं जपति। एकैकयाहुत्या जुहोति।
-8-1-10- आबाधे च ।।
पीडायां द्वे स्यातां बहुव्रीहिवच्च। गतगता। नष्टनष्टा।
-8-1-11- कर्मधारयवदुत्तरेषु ।।
उत्तरसूत्रेषु कर्मधारयवत् कार्यं स्यात्।
-8-1-12- प्रकारे गुणवचनस्य ।।
सादृश्ये गुणवचनस्य द्वे स्याताम्। पटुपटुः। मन्दमन्दमुदितः प्रययौ खम्। पटुपटवी। पण्डितपण्डिता।
कर्मधारयत्वात् प्रतिषेधविषयेऽपि पुंवत्। कालककालिका।
इदञ्ञ्च द्विर्वचनं गुणविशिष्टद्रव्यवृत्तेः, गुणमात्रवृत्तेश्चेष्यते। शुक्लशुक्लः षटः। शुक्लशुक्लमस्य रूपम्।
एवं वचनग्रहणाधिक्यात् क्रियाशब्दस्यापि भवति--वसन्ते भीतभीतेन कोकिलेन वने रुतम्। भीतभीत इव शीतमयूखः।
इतरेतरान्योपरस्पराः कर्मव्यतीहारैकत्वक्लीबत्वविषया निपातनात् साधवः स्युः। तेभ्यः स्त्रीनपुंसकयोः सुप आम् वेति स्मृतिः। इतरेतरां स्त्रियौ क्षत्रियकुले वा स्पर्धेते, इतरेतरं वा। इतरेतरां स्त्रीभ्यां स्त्रीभिर्वा स्पर्द्ध्यते, इतरेतरेण वा। एवमन्योन्वामन्योन्यस्य वा। परस्परां परस्परस्मिन् वा।
तथा--एवमन्योन्याम्, अन्योन्यं वा। परस्पराम्, परस्परे वा। अन्योन्याम्, अन्योन्यस्य। परस्पराम्, परस्परस्मिन् वेति नपुंसकेऽपि।
पुंसि तु--इतरेतरं राजानौ युध्येते। अन्योन्यमासूयतः।
।आनुपूर्व्ये द्वे ।। मूले मूले स्थूला दन्ताः। ज्येष्ठं ज्येष्ठं प्रवेशय।
। आधिक्ये च द्वे ।। अहो दर्शनीयाहो दर्शनीया। मह्यं रोचते मह्यं रोचते। दृश्यताया रुचेश्चात्राधिक्यं द्विर्वचनात् प्रतीयते।
। चापले द्वे यावद्बोधम् ।। अहिरहिर्बुध्यस्व बुध्यस्व बुध्यस्व।
। पूर्वप्रथमयोरतिशये ।। पूर्वं पूर्वं पुष्प्यन्ति। प्रथमं भुक्तम्। प्रथमं प्रथमं प्रथमं पठ्यन्ते।
आतिशायिकोऽपीष्टः--पूर्वतरं पूर्वतरं पुष्प्यन्ति।
-7-1-13- अकृच्छे प्रियसुखयोरन्यतरस्याम् ।।
अकृच्छ्रार्थयोरनयोर्द्वे वा स्याताम्। प्रियप्रियेण सुखसुखेन ददाति प्रियेण सुखेन वा।
अकृच्छ्रे किम् ? प्रियः पुत्रः। सुखो रथः।
-7-1-14- यथास्वे यथायथम् ।।
अत्रेदं निपात्यते। यथायथं ताः सहिता नभश्चरैः।
यथास्वीयमित्यर्थः।
-8-1-15- द्वन्द्वं रहस्यमर्यादावचव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।।
एषु पञ्ञ्चसु द्वन्द्वं निपात्यते। द्वौ द्वौ भूत्वा द्वन्द्वं रहस्यं मन्त्रयन्ते। एवं यावदभिव्यक्तौ। द्वन्द्वं रामलक्ष्मणौ। द्वौ साहचर्येणाभिव्यक्तावित्यर्थः।
इह योगविभागात् सुखदुःखयोर्द्वन्द्वं चार्थे द्वन्द्वः इति दृश्यते।
-8-1-16- पदस्य ।।
अधिकारोऽयं प्राग् अपदान्तस्य मूर्धन्यात् ( 8.3.55 )। वक्ष्यति संयोगान्तस्य लोपः। पठन्। पचन्। नलोपः--राजभ्याम्। मो ना घातो। प्रशान्।
पदस्य किम् ? पचन्तौ। राजानौ। प्रशामौ।
-8-1-17- पदात् ।।
अधिकारोऽयं यावत् कुत्सनेषु (8.1.69 ) इति। वक्ष्यति-- बहुवचनस्य वस्नसौ। पातु वः। पातु नः।
पदात् किम् ? युष्मान् पातु। अस्मान् धिनोतु।
-8-1-18- अनुदात्तं सर्वमपादादौ ।।
अनुदात्तमिति च्छान्दसम्। भाषायां स्वरस्याप्रचारात्।
अपदादावित्येवमा पादपरिसमाप्तेरधिक्रियते। वक्ष्यति--बहुवचनस्य वस्नसौ। ग्रामो वः। पुत्रो नः।
अपादादौ किम् ? श्लोकपादादौ मा भूत्--युष्माकं पालकः शम्भुरस्माकं देशको जिनः।
।समानवाक्ये युष्मदस्मदोरादेशा वक्तव्याः ।। वाक्यभेदे मा भूवन्-- ओदनं पच। तव भविष्यति। मम भविष्यति।
किं पुनर्वाक्यम् ? आख्यातं साव्ययं सकारकं सविशेषणं वाक्यम्। यथा साव्ययम्--उच्चैः पठति।
सकारकम्--ग्रामं याति। सविशेषणम्--मृदु पचति।
-8-1-19- आमन्त्रितस्य च ।।
इति स्वरसूत्रम्।
-8-1-20- युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ ।।
द्विवचनान्तयोः षष्ठ्याद्यन्तयोर्यष्मदस्मदोर्वान्नावौ इत्येतावादेशौ स्याताम्। ग्रामो वाम्। देशो नौ। ग्रामो वां दीयते। देशो नौ दीयते। शिवो वां रक्षतु। बुद्धौ नौ पातु।
स्थग्रहण किम् ? अश्रयमाणर्विभक्तेर्मा भूदिर्ति--स युष्मत्पुत्रः। अस्मत्पुत्रोऽयम्।
-8-1-21- बहुवचनस्य वस्नसौ ।।
षष्ठ्यादिबहुवचनान्तयोस्तयोर्वस्नसौ स्याताम्। ग्रामो वः। पुत्रो नः इत्यादि।
-8-1-22- तेमयावेकवचनस्य ।।
षष्ठ्याद्येकवचनान्तयो स्तयोस्तेमे स्याताम्। धनं ते। ग्रामस्ते। पुत्रो मे। इत्यादि।
-8-1-23- त्वार्मौ द्वितीयायाः ।।
द्वितीयैकवचनान्तयोस्तयो स्त्वामौ स्याताम्। अहं त्वा पश्यामि। त्वं मा पश्य।
-8-1-24- न चवाहाहैवयुक्ते ।।
च, वा, ह, अह, एव--इत्येतैः पञ्ञ्चभिर्योगे वान्नावादयो न स्युः। ग्रामस्तव च स्वम्। ग्रामो मम च स्वम्।
युक्तग्रहणमिह साक्षाद् योगार्थम्। युक्तयुक्ते मा भूत्--ग्रामश्च ते स्वमिति।
-8-1-25- पश्यार्थैश्चानालोचने ।।
दर्शनार्थैर्योगे वान्नावादयो न स्युः। विप्रस्तव ग्रामं समीक्ष्यागतः। विप्रो मम ग्रामं सन्दृश्य गतः।
अनालोचने किम् ? चक्षुर्ज्ञाने मा भुत्। विप्रस्त्वा पश्यति विप्रो गा पश्यति।
-8-1-26- सपूर्वायाः प्रथमाया विभाषा ।।
सपूर्वपदात् प्रथमान्तात् परयोस्तयोर्वान्नावादयो वा स्युः। ग्रामे कम्बलस्ते स्वम्, तव वा। एवं सर्वत्रोयम्।
। इह सर्व एवामी वान्नावादयोऽनन्वादेशे विभाषा वाच्याः ।। ग्रामस्ते,
तव वा। ग्रामो मे, मम वा। ग्रामस्ते दीयते, तुभ्यं वा। शिवस्त्वा रक्षतु, त्वां वा। विष्णुर्मा रक्षतु, मां वा। एवं पातु वः। पातु न इत्यादि वेदितव्यम्।
अनन्वादेशे किम् ? अथो ते ग्रामः। अथो मे ग्रामः।
न तर्हि वक्त्व्यम् ? सपूर्वायाः प्रथमाया विभाषेति वाच्यमन्वादेशार्थम्। अथो ग्रामे कम्बलस्यते स्वम्। पक्षे तव स्वम्।
पदाद इति निवृत्तम्।
इह तिङो गोत्रादीनि इत्यत आरभ्य पञ्ञ्चचत्वारिंशत् स्वरसूत्राणि
(1)। (1.) तानि यथा--
-8-1-27.- तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।।
-8-1-28- तिङ्ङतिङः ।।
-8-1-29- न लुट् ।।
-8-1-30- निपातैर्यद्यदिहन्तकुविन्नेच्चेण्कच्चिद्यत्रयुक्तम् ।।
-8-1-31- नह प्रत्यारम्भे ।।
-8-1-32- सत्यं प्रश्ने ।।
-8-1-33- अङ्गाप्रातिलोम्ये ।।
-8-1-34- हि च ।।
-8-1-35- छन्दस्यनेकमर्पि साकाङ्क्षम् ।।
-8-1-36- यावद्यथाभ्याम् ।।
-8-1-37- पूजायां नानन्तरम् ।।
-8-1-38- उपसर्गव्यपेतञ्ञ्च ।।
-8-1-39- तुपश्यपश्यताहैः पूजायाम् ।।
-8-1-40- अहो च ।।
-8-1-41- शेषे बिभाषा ।।
-8-1-42- परा च परीप्सायाम् ।।
-8-1-43- नन्त्यिनुज्ञैषणायाम् ।।
-8-1-44- किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ।।
-8-1-45- लोपे विभाषा ।।
-8-1-46- एहिमन्ये प्रहासे लृट् ।।
-8-1-47- जात्वपूर्वम् ।।
-8-1-48- किंवृत्तञ्ञ्च चिदुत्तरम् ।।
-8-1-49- आहो उताहो चानन्तरम् ।।
-8-1-50- शेषे विभाषा ।।
-8-1-51- गत्यर्थलोटा लृण् न चेत् कारकं सर्वान्यत् ।।
-8-1-52- लोट् च ।।
-8-1-53- विभाषितं सोपसर्गमनुत्तमम् ।।
-8-1-54- हन्त च ।।
-8-1-55- आम एकान्तरमामन्त्रितमनन्तिके ।।
-8-1-56- यद्धितुपरं छन्दसि ।।
-8-1-57- चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ।।
-8-1-58- चादिषु च ।।
-8-1-59- चवायोगे प्रथमा ।।
-8-1-60- हेति क्षियायाम् ।।
-8-1-61- अहेति विनियोगे च ।।
-8-1-62- चाहलोप विभाषा ।।
-8-1-63- चादिलोपे विभाषा ।।
-8-1-64- वैवावेति च च्छन्दिस ।।
-8-1-65- एकान्याभ्यां समर्थभ्याम् ।।
-8-1-66- यद्वृत्तान्नित्यम् ।।
-8-1-67- पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः ।।
-8-1-68- सगतिरपि तिङ् ।।
-8-1-69- कुत्सने च सुप्यगोत्रादौ ।।
-8-1-70- गतिर्गतौ ।।
-8-1-71- तिङि चोदात्तवति ।।
-8-1-72- आमन्त्रितं पूर्वमधिद्यमाववत् ।।
आमन्त्रितान्तं पूर्वमविद्यमानवत् स्यात्। तेन पदादुच्यमाना वान्नावादयो न स्युः। विप्र तव स्वम्। विप्रौ युवयोः स्वम्। विप्रा युष्माकं स्वम्। इत्यादि।
एवं द्वितीयाचतुर्थ्वोरपि।
आमन्त्रितमिति किम् ? कम्बलस्ते स्वम्।
-8-1-73- नामन्त्रिते समानाधिकरणे सामान्यवचनम् ।।
आमन्त्रितान्ते तुल्याधिकरणे परे पूर्वमामन्त्रितं सामान्यवचनमपि नाविद्यमानवत् स्यात्। ततो वान्नावादयः स्युरेव। छात्रौ गुणिनौ वां स्वम्।
छात्र गुणिन् ते स्वम्।
सामान्यवचनं किम् ? देवदत्त जटिल तव स्वम्।
-8-1-74- विभाषितं विशेषवचने बहुवचनम् ।।
विशेषवचने तुल्याधिकरणे आमन्त्रिते परतो बहुवचनान्तमविद्यमानवद् वा स्यात। छात्रा। वैयाकरणा युष्माकं स्वम्। पक्षे--वः स्वमित्यादि।