भाषावृत्तिः/अष्टमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः भाषावृत्तिः
द्वितीयः पादः
पुरुषोत्तमदेव
तृतीयः पादः →

-8-2-1- पूर्वत्रासिद्धम् ।।
अधिकारोऽयम्। सपादसप्ताध्यायीविधौ कर्त्तव्ये वक्ष्यमाणस्त्रिपादीविधिरसिद्धः स्यात्। त्रिपाद्यां च परः परो विधिरसिद्धः स्यात् पूर्वत्र कर्त्तव्ये। अस्मा उद्धर, द्वा आनय--व्योर्लोपस्यासिद्धत्वान्न सन्धिः। अमुष्य, अमुष्मै, अमुष्मात्--उत्वस्यासिद्धत्वात् स्यादयः स्युः।
-8-2-2- नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ।।
एष्वेव नलोपोऽसिद्धः स्यात्। सुब्विधौ--राजभ्याम्। राजभिः। राजसु। सुपि दीर्घत्वादि न भवति। स्वरो नोदाह्रियते।
संज्ञाविधौ--पञ्ञ्च ब्राह्मण्यः। षट्संज्ञा भवति, ततो ङीबभावः।
तुग्विधौ--वृत्रहभ्याम्। वृत्रहभिः। पिति कृति तुग् न भवति।
कृति किम् ? वृत्रहच्छत्रम्। छे च इति तुग् भवत्येव। एष्वेवेति नियमः किम ? राजीयति। राजायते। राजाश्वः। राजेहा।
-8-2-3- न मु ने ।।
मुभावो नाभावे कर्त्तव्ये नासिद्धः सयात्। अमुना।
। सिज्लोप एकादेशे सिद्धः ।। अलावीत्।
। निष्ठादेशः षत्वप्रत्ययविधो॰्विधिषु सिद्धः ।। वृक्णः। झलि इति षत्वं न भवति। क्षीबिकः। नौद्व्यचष्ठन् इति ठन्प्रत्ययो भवति। क्षीबः। तमात्रस्य लोपपक्षे इण् न भवति।
। श्चुत्वं धुटि सिद्धम् ।। रट् श्चयोतति। ङः सि धुड् इति न भवति।
। अभ्यासजश्त्वर्चत्वमेत्वतुकोः सिद्धम् ।। बभणतुः। दधि चिच्छित्सति। छिदेः सनि रूपम्।
। द्विर्वचने परसवर्णत्वं सिद्धम् ।। सयँ य्यन्ता। सवँ व्वत्सरः।
इह स्वरसूत्रत्रयम्(1)। (1.) तद्यथा--
-8-2-4- उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ।।
-8-2-5- एकादेश उदात्तेनोदात्तः ।।
-8-2-6- स्वरितो वाऽनुदात्ते पदादौ ।।
-8-2-7- नलोपः प्रातिपदिकान्तस्य ।।
पदस्य प्रातिपदिकस्यान्तो लकारो लुप्यते। राजा। राजभ्याम्। राजपुत्रः। राजत्वम्। राजतमः।
। अह्नो नलोपप्रतिषेधः ।। अहोभ्याम्। अहरत्र। अहन् रोऽसुपि इति रुरेफयोरसिद्धत्वान्नलोपः प्राप्रोति।
-8-2-8- न ङिसम्बुद्धयोः ।।
अनयोरत्र नलोपो नास्ति। ङौ--राजनीवाचरति राजन्यति गुरौ। अधिकरणाच्च इति क्यच्।
सम्बुद्धौ--हे राजन्।
कथं चर्मणि तिला अस्येति चर्मतिलः ? ङावनुत्तरपदे प्रतिषेधो वक्तव्यः इति भाष्यात्।
। वा नपुंसकानामिति वक्तव्यम् ।। हे चर्मन्, हे चर्म वा। हे दण्डिन्, हे दण्डि वा।
-8-2-9- मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।।
मकारान्तावर्णान्तान् मकारोपधादवर्णोपधाच्च मतोरादेर्वः स्यात्। किंवान् वृक्षवान्। खट्वावान्। उपधायाश्च--लक्ष्मीवान्। पयस्वान्। यशस्वान्। भास्वान्। कंवान्, शंवान् इत्युभयथापि सिध्यति।
मादुपधायाः किम् ? मतिमान्। सर्पिष्मान्। आयुष्मान्। अयवादिभ्यः किम् ? यवमान्।
यव, भूमि, कृमि, ऊर्मि, ककुद्, गरुत्। आकृतिगणोऽयम्।
-8-2-10- झयः ।।
झयः परस्य मतोर्वकारः स्यात्। अग्निचित्वान्। मरुत्वान्।
-8-2-11- संज्ञायाम् ।।
नाम्रि मतोर्वः स्यात्। अहीवती नदी। मणीवती। शरावती। नद्यां
मतुप्, शरादीनाञ्ञ्च इति दीर्घः।
-8-2-12- आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ।।
एते ग्रामप्राण्यङ्गखरऋषिशैलनदीनां नाम्रि निपात्यन्ते। अन्यत्र-- असनवान्। अस्थिमान्। चक्रवान्। कक्ष्यावान्। लवणवान। चर्मवती।
-8-2-13- उदन्वानुदधौ च ।।
अयमुदधौ च स्यात्। अन्यत्र--उदकवान्।
चकारादन्यत्रापि यथाभिधानम्--उदन्वन्नाम मुनिः।
-8-2-14- राजन्वान् सौराज्ये ।।
सुराज्ञि देशे राजन्वान् स्यात्। ततोऽन्यत्र--राजवान्।
इह--
-8-2-15- छन्दसीरः ।
-8-2-16- अनो नुट् ।।
-8-2-17- नाद् घस्य ।।
छन्दः सूत्रत्रयम्।
-8-2-18- कृपो रो लः ।।
कृपो रेफस्य लः स्यात्। कल्प्ता। लुटि च क्लृपः इति निपातनाद् ऋकारस्यापि लृकारः--क्लृप्तः। चलीक्लृप्यते। चक्लृपे। चिक्लृप्सते।
कथं कृपा ? क्रपेः सम्प्रसारणं च इति भिदादिपाठेन लाक्षणिकत्वान्न लत्वम्।
कृपाण-कृपण-कृपीट-कर्पटादयस्तूणादौ बाहुलकात्।
। बालमूलघ्वलमङ्गुलीनां वा लो रः ।। बारः, बालः वा। मूलम्, मूरं
वा। लघुः, रघुः वा। अरम्, अलं वा। अङ्गुलिः, अङ्गुरिः वा।
। कपिरकादीनां वा रस्य लः ।। कपिलका, कपिरका वा। रोम, लोम वा। पांशुरम्, पांशुलं वा। कर्म, कल्म वा। भीरुः, भीलुर्वा।
रलयोरेकत्वस्मरणमित्येके। डलयोरित्यन्ये। विरोचनम्, विलोचनं वा। व्रीडा, व्रीला वा। विडालः, विरालः, विलालो वा। चूड़ा, चूला वा। वडभी,
वलभी वेत्यादि।
सर्वोऽयं वर्णविकारप्रपञ्ञ्चः।
-8-2-19- उपसर्गस्यायतौ ।।
अयतावुपसर्गरेफस्य लः स्यात्। प्लायते। पलायते। पल्ययते। प्रतेरनभिधानात्--प्रत्ययते।
-8-2-20- ग्रो यङि ।।
गिरतेर्यङि लत्वं स्यात्। निजेगिल्यते।
यङि किम् ? निगीर्यते।
-8-2-21- अचि विभाषा ।।
गिरतेरचि लत्वं वा स्यात्। गिरति, गिलति वा। निगरणम्, निगलनं वा।
व्यवस्थितविभाषया प्राण्यङ्गे नित्यं गल एव। विषे तु गर एव।
धातोः कार्यमुच्यमानं धातुप्रत्यय एव स्यात्। नेह--गिरौ, गिरः।
-8-2-22- परेश्च घाङ्कयोः ।।
धेऽङ्के च परेर्लत्वं वा स्यात्। परिघः, पलिघो वा। पर्यङ्कः, पल्यङ्को वा।
। योगे चेति वक्तव्यम् ।। परियोगः, पलियोगो वा।
-8-2-23- संयोगान्तस्य लोपः ।।
पदस्य संयोगान्तस्य लोपः स्यात्। गोमान्। श्रेयान्। भवन्। पचन्।
कृतवान्।
इह दध्यत्र, मध्वत्र, काक्यर्थम्, वास्यर्थमिति संयोगान्तस्य स्कोः इति संयोगादेश्च लोपो न भवति; संहितानिमित्तस्य यण्लोपबहिरङगस्यासिद्धेः।
-8-2-24- रात् सस्य ।।
रेफात् परस्य संयोगान्तस्य सकारस्यैव लोपः स्यात्। पितुः। मातुः। हे पितः। कटचिकीः। भारजिहीः।
नान्यस्य--ऊर्जेःक्विप् ऊर्क्। मृजेर्लङिन्यमार्ट्। जकारयोर्लोपो न भवति।
-8-2-25- धि च ।।
धकारे सलोपः स्यात्। असहिध्वम्। अयाचिध्वम्। अपविध्वम्। अलविध्वम्।
इह--। धिसकारे सिचो लोपश्चकाद्धीति प्रयोजनम् । इत्येके। सामान्येनेति सर्वेषाम्। चकाधि।
वसेरासेश्च--निवध्वम्, आध्वम्।
पदस्येत्येव--पयो धावति, पयोधिस्तु व्यवस्थितविभाषानुवृत्तेः।
अतः परं तु सिचो लोप एवेष्यत इत्याहुः।
-8-2-26- झलो झलि ।।
झल्परस्य सिचो लोपः स्याज्झलि। अभित्तः। अभित्थाः। अबुद्धः। अबुद्धाः।
झलि किम् ? अभित्साताम्।
-8-2-27- ह्वस्वाङ्गात् ।।
ह्रस्वात् परस्य सिचो लोपः स्यात्। अकृत। अकृथाः। अदित। अदिथाः।
अङ्गात् किम् ? अलविष्ठ। झलीत्येव--अकृषाताम्।
सिचोऽन्यस्य नेष्यते--द्विष्टराम्। द्विष्टमाम्। त्रिष्टमाम्।
-8-2-28- इट इर्टि ।।
इटः परस्य सिचो लोपः स्यादीटि परतः। अदेवीत्। अश्वसीत् अग्रहीत्।
-8-2-29- स्कोः संयोगाद्योरन्ते च ।।
झलि पदान्ते च यः संयोगस्तदाद्योः सकारककारयार्लोपः स्यात्। मस्जो--मग्नः। साधुमक्। तक्षू--तष्टव्यम्। तष्टः। काष्ठतट्। पदस्येत्येव--पृथक् स्थाता।
-8-2-30- चोः कुः ।।
झलि पदान्ते चवर्गस्य कवर्गः स्यात्। वक्ता, वक्तुम्, वक्तव्यम्। वाक्। लङि--अवक्। रुजः--रुग्णः। घृजेः--चक्रघृक्।
कथमाञ्ञ्जीत् ? परमवर्णासिद्धेः।
कथं तर्हि ञ्ञोपधस्य क्रुञ्ञ्चेः क्विनि--क्रुङ् क्रुञ्ञ्चौ क्रुञ्ञ्चः ? युजिक्रुञ्ञ्चाञ्ञ्च इति निपातनात्।
-8-2-31- हो ढः ।।
झलि पदान्ते च हस्य ढः स्यात्। सोढा। लेढा। मधुलिट्। अलेट्।
-8-2-32- दादेर्धातोर्घः ।।
धातुपाठे दादेर्हस्य घः स्यात् तस्मिन् परतः। दोग्धा। गोधुक्। लङि- अधोक्। दग्धा। ग्रामधक्।
ढत्वे घत्वमिदं सिद्धम्; अपवादसार्मथ्यात्।
-8-2-33- वा द्रुहमुहष्णुहष्णिहाम् ।।
एषां हस्य घो वा स्यात्। द्रोग्धा, द्रोढा वा। मित्रध्रुग, मित्रध्रुट् वा। मोग्धा, मोढा। स्रोग्धा, स्रोढा वा।
स्रिक्, स्रिट् वा। स्नेग्धा, स्नेढा वा।
-8-2-34- नहो धः ।।
नहो हस्य धः स्यात् तस्मिन् परतः। नद्धम्। नद्धुम्। नद्धा। नद्धव्यः। उपानत्।
-8-2-35- आहस्थः ।।
आहो हकारस्य थः स्याज्झलि। आत्थ।
झलि किम् ? आहतुः। आहुः।
-8-2-36- व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।।
एवामन्त्यस्य षः स्याज् झलि पदान्ते च। व्रष्टा। मूलवृट्। भ्रष्ट, र्भष्टा। धान्यभृट्। स्रष्टा। रज्जुसृट्। मार्ष्टा। स्थानमृट्। यष्टा, यष्टुम्। देवेट्। राष्ट्रम्। सम्राट्। भ्राष्ट्रम्। विभ्राट्। प्रष्टा। शब्दप्राट्। प्रवेष्टुम्। विट्।
-8-2-37- एकाचो वशे भष् झषन्तस्य स्ध्वोः ।।
धातोरवयवो य एकाज् झषन्तस्तस्य बशां बगडदां स्थाने भषो भघढधो वर्गचतुर्थाः स्युः, से ध्वे पदान्ते च। बुध--भोत्स्यते, अभुङध्वम्। गुहू--घोक्ष्यते, अघूढ्वम्। वर्णघुट्। दुह--धोक्ष्यते, अधुग्ध्वम्। गोधुक्।
धात्ववयवाश्रयणं किम् ? अट्यपि कृते यथा स्यात्। अधोक्, अधुग्ध्वम्। तथा गर्दभयतेर्डुण्डुभयतेश्चभयतेश्च क्विप्--गर्धप्, डुण्ढुप्। तुण्डिभयतेश्च तुण्ढिव्। एकाचः किम् ? दामलिट्।
-8-2-38- दधस्तथोश्च ।।
दध इति कृतद्विर्वचनस्य दधातेर्बशो भष् स्यात् तथोः परतः, सध्वोश्च। धत्तः। धत्थः। धत्से। धङ्घे। पिधङ्ध्वं पाणिभिदृर्दशः। झषन्तस्येत्येव--दधाति, दधासि।
-8-2-39- झलां जशोऽन्ते ।।
पदान्ते झलामन्तरतमा जशः स्युः। वागत्र। एकाजत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। वाग्भ्याम्। अन्धयुग्गमनम्। श्वलिड्भ्याम्। भवद्भ्याम्।
अन्ते किम् ? झलि मा भूत्। वस्ता। इह संयोगान्तलोपे जश्त्वमसिद्धम्। श्रेयान्। जश्त्वे सोरुत्वं सिद्धम्। पयः। यशः। कुत एतत् ? अपवादत्वात्।
-8-2-40- झषस्तथोर्धोऽधः ।।
झषः परयोस्तथोर्धः स्यात्। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। अबुद्ध। अबुद्धाः। बोद्धा। लेढा। अलीढ। अलीढाः। दोग्धा। अदुग्ध। अदुग्धा।
अधः किम् ? धाञ्ञो मा भूत्। धत्तः। धत्थः।
-8-2-41- षढोः कः सि ।।
षकारढकारयोः कः स्यात् सकारे परतः। पिष्लृ-पेक्ष्यति। लिह-लेक्ष्यते। लिलिक्षति। सीति किम् ? पिनष्टि। लेढि।
अथ निष्ठादेशप्रकरणम्
-8-2-42- रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।।
रदाभ्यां परस्य निष्ठातकारस्य नकारः स्यात् पूर्वस्य च दस्य नः। आस्तीर्णम्। अवगूर्णवान्। भिन्नम्, भिन्नवान्। छिन्नः, छिन्नवान्।
रदाभ्यां किम् ? कृतः, कृतवान्। त इति किम् ? चरितम्।
इह कृतस्यापत्यं कीर्त्तिः। आ ऋतः आर्त्त इति नत्वं नास्ति; वृद्धेर्बहिरङ्गाया असिद्धत्वात्। यथा नृमत इदं नार्मतमिति मतोर्वत्वं नास्ति।
-8-2-43- संयोगादेरातो धातोर्यण्वतः ।।
संयोगादिरादन्तो यो धातुर्यण्युक्तस्तस्य निष्ठातकारस्य नः स्यात्। निद्राणः, निद्राणवान्। स्त्यानः। म्लानः। ग्लानः।
संयोगादेः किम् ? यातः। धातोः किम् ? निर्यातः। आतः किम् ? च्युतः। यण्वतः किम् ? स्रातः।
निष्णातः। आम्नातः।
-8-2-44- ल्वादिभ्यः ।।
ल्वादेर्निष्ठातो नः स्यात्। लूनः। धूनः। जीनः। जीनवान्।
। ऋकारल्वादिभ्यः क्तिन् निष्ठावत् ।। कीर्णिः। शीर्णिः। गीर्णिः। लूनिः। धूनिः।
। दुग्वोर्दीर्घश्च ।। दूनः। गूनः।
। पूञ्ञो विनाशे ।। पूना यवाः। विनाशे किम् ? पूतं धान्यम्।
। सिनोतेर्ग्रासकर्मकर्तृकस्य ।। सिनो ग्रासः स्वयमेव। नेह-- सितो विप्रेण ग्रासः। षिञ्ञ् बन्धने।
-8-2-45- ओदितश्च ।।
ओदितो निष्ठातो नत्वं स्यात्। ओनजी--नग्नः। ओविजी--उद्विग्नः। ओप्यायी--पीनः। पीनवान्।
स्वादय ओदितः। सूनः। दीनः, दीनवान्। उड्डीनवान्।
-8-2-46- क्षियो दीर्घात् ।।
निष्ठातो नः स्यात्। क्षीणः, क्षीणवान्।
दीर्घात किम् ? क्षितमस्य जातम्।
-8-2-47- श्योऽस्पर्शे ।।
श्यैङो निष्ठातो नः स्यात्। शीनं घृतम्। शीना वसा।
अस्पर्शे किम् ? शीतो वायुः।
-8-2-48- अञ्ञ्चोऽनपादाने ।।
अञ्ञ्चो निष्ठातो न स्यात्। समक्नौ शकुनेः पादौ। पङ्के समक्नः। लग्न इत्यर्थः।
अनपादाने किम् ? उदक्तमुदकं कूपात्। कथं व्यक्तमिति ? अञ्ञ्जधातोः।
-8-2-49- दिवोऽविजिगीषायाम् ।।
दिवो निष्ठातो नत्वं स्यात्। आद्यूनः स्यादौदरिकः।
अविजिगीषायां किम ? द्यूतं क्रीडन्ति।
-8-2-50- निर्वाणोऽवाते ।।
स्यात्। निर्वाणोऽग्निः। निर्वाणं मुनीनाम्।
वाते त्वभिधेये--निर्वातो वातः।
-8-2-51- शुषः कः ।।
शुषो निष्ठातस्य कः स्यात्। शुष्कः। शुष्कवान्।
-8-2-52- पचोः वः ।।
स्यात्। पक्वः। पक्ववान्।
-8-2-53- क्षयो मः ।।
क्षायो मकारः स्यात्। क्षै--क्षामः। क्षामवान्।
-8-2-54- प्रस्त्योऽन्यतरस्याम् ।।
प्रस्त्यायतेर्निष्ठातो मो वा स्यात्। प्रस्तीतः, प्रस्तीमो वा। प्रस्तीतवान्, प्रस्तीमवान् वा। स्त्यः प्रपूर्वस्य इति सम्प्रसारणम्।
-8-2-55- अनुपसर्गात् फल्लक्षीबकृशोल्लाघाः ।।
एते निपात्यन्ते।
अनुपसर्गात् किम् ? ञ्ञिफला विशरणे--प्रफुल्तं पद्म्। क्षीबृ मदे--प्रक्षीबितः। प्रकृशितः। परिकृश इति प्रादिसमासः। लाघृ--प्रोल्लाघितः।
क्तान्ते रूपनिर्देशात्--फलितवान्। क्षीबितवान्। कृशितवान्।
उल्लाघितवानित्येके। फुल्लवान्, क्षीबिवान्, कृशवान्, उल्लाघवानित्यपरे। फुल्तवान् इत्यन्ये।
। उत्फुल्लसंफुल्लयोरुपसंख्यानम् ।।
-8-2-56- नुदविदोन्दत्राह्वीभ्योऽन्यतरस्याम् ।।
एभ्यो निष्ठातो नत्वं वा स्यात्। नुन्नम्, नुत्तं वा। विदेर्विचारणार्थस्य--विन्नः, वित्तो वा। उन्दी--समुन्न्म्, समुत्तो
वा। त्राणः, त्रातो वा। घ्राणः, घ्रातो वा। ह्रीणः, ह्रीतो वा।
-8-2-57- न ध्याख्यापॄमूर्च्छिमदाम् ।।
एषां प्राप्तं नत्वं न स्यात्। ध्यातः। ख्यातः। पूर्त्तः। मूर्त्तः। पूरीधातोस्तु--पूर्णः।
-8-2-58- वित्तो भोगप्रत्यययोः ।।
विन्दतेर्धनप्रसिद्ध्योर्वित्तः स्यात्। वित्तमस्यास्ति वित्तः पाण्डित्येन। अन्यत्र--विन्नः।
-8-2-59- भित्तं शकलम् ।।
भित्तं खण्डं स्यात्। अन्यत्र--भिन्नम्।
-8-2-60- ऋणमाधमार्ण्ये ।।
इदमत्र निपात्यते। ऋणं गृह्णति। अन्यत्र--ऋतं सत्यं वदेत्।
-8-2-61- नसत्तनिषत्तानुत्तप्रतूर्त्तगूर्त्तानिच्छन्दसि ।।
छान्दसम्।

                 ।।उक्ताः निष्ठादेशाः ।।
-8-2-62- क्विन्प्रत्कयस्य कुः ।।
क्विन्प्रत्ययो यस्माद् विहितस्तस्य कुत्वं स्यात्। घृतस्पृक्। व्रश्चादिना षत्वं कृत्वा जश्त्वेन डकारे कृते कुत्वं गकारः, तस्य वावसाने इति र्चत्वम्। अन्ये तु--कुत्वेन महाप्राणत्वाच्छस्य खः, ततो जश्त्वं गकारः, तस्य र्चत्वमित्याहुः।
एवमृत्विक्। दधृक्। सम्यङ्। प्राङ्। न्यङ्। क्रुङ् । क्रुङ्भ्याम्।
क्विन्प्रतययस्य किम् ? देवेट्। रज्जुसृट्। रज्जुसृड्भ्याम्।
पदस्येत्येव--घृतस्पृशौ।
इह क्विन् प्रत्ययो यस्माद् विहितः इति विज्ञानादन्यप्रत्ययान्तस्यापि पदान्ते क्वचित कुत्वम। तेन क्विपि दृग्भ्याम्, दृग्भिरित्याहुः।
-8-2-63- नशेर्वा ।।
नशेः पदान्तस्य कुत्वं वा स्यात्। भावे सम्पदादित्वात् क्विपि, नक्, नड् वा।
-8-2-64- मो नो धातोः ।।
पदस्य मान्तस्य घातोर्नः प्रशान्। प्रतान्।
घातोः किम् ? इदम्। पदस्येत्येव--प्रशामौ। प्रतामौ।
-8-2-65- म्वोश्च ।।
मवयोः परयोर्धातोर्मस्य नः स्यात्। मकारे छान्दसमुदाहरणम्। वकारे
क्वसौ--जगन्वान्।
येषां तु च्छन्दसि क्वसुः इति मतम्, तेषां छन्दःसूत्रमेतत्।
-8-2-66- ससजुषो रुः ।।
सान्तस्य पदस्य सजुषश्च रुः स्यात्। अग्निरत्र। वायुरत्र। जुषेः क्विप्, सह जुषा वर्त्तत इति सजूस्तापसः।
-8-2-67- अवयाः श्वेतवाः पुरोडाश्च ।।
इति च्छन्दःसूत्रम्।
-8-2-68- अहन् ।।
अहन्नित्येतस्य पदस्य रुः स्यात्। अहोभ्याम्। अहःसु। हे दीर्घाहो
निदाघ।
दीर्घाहा निदाघ इति रुत्वस्यासिद्धत्वात् सर्वनामस्थाने इति दीर्घः।
। रूपरात्रिरथन्तरेषूपसंख्यानम् ।। अहोरूपम्। गतमहो रात्रिरागता। एकदेशविकृतस्यानन्यत्वात्--अहोरात्रा,
अहोरथन्तरम्।
रोऽसुपि इति प्राप्ते रुत्वमिदमुत्वार्थम्।
-8-2-69- रोऽसुपि ।।
अह्नो मकारस्यासुपि परे रेफः स्यात्। अहरत्र। अहरिह। अहर्ददाति। अहर्भागः। अहर्मूलम्। अह्नो रविघौ लुमता लुप्ते प्रत्ययलक्षणनिषेधादसुप्परता।
असुपि किम् ? दीर्घाहा निदाघः। हे दीर्घाहः। अत्र लोपोऽयम्, न लुक्।
। अहरादीनां पत्यादिषूभयथा ।। रुर्वा, रेफौ वा। अहः पतिः, अहःपतिः, अहर्पति वा। स्वः पतिः, स्वःपतिः, स्वर्पतिः वा। कस्कादि पाठात् गीष्पतिः, गीःपतिः, गीर्पतिः वा। उषसि बुध्यते उषर्बुधः। व्यवस्थितविभाषया नित्यं रेफेण विसर्ग उत्वञ्ञ्च बाध्यते।
इह--
-8-2-70- अम्नरूधरवरित्युभयथा च्छन्दसि ।।
-8-2-71- भुवश्च महाव्याहृतेः ।।
छन्दः सूत्रद्वहम्।
-8-2-72- वसुस्रंसुध्वंस्वनडुहां दः ।।
एषां पदानां दः स्यात्। रुत्वढत्वयोर्बाधा। विद्वद्भ्याम्। उखास्रत्। पर्णध्वत्। उपसेदिवद्भ्याम्। पर्णध्वद्भ्याम्। पर्णध्वद्भिः। अनडुद्भ्याम्। अनडुद्भिः।
स इत्येव--विद्वान्। पदस्येत्येव--विद्वांसौ।
-8-2-73- तिप्यनस्तेः ।।
तिपि सकारान्तस्य पदस्य दः स्यात्। अचकाद् भवान्। अन्वशाद् भवान्। स इत्येव--अजागर्भवान्।
तिपि किम् ? चकास्तेः क्विप्, सुचकास्तीति सुचकाः।
पदस्येत्येव--चकास्ति।
अनस्तेः इति च्छन्दोभागः।
-8-2-74- सिपि धातो रुर्वा ।।
सिपि सान्तस्य पदस्य रुर्वा दकारो वा स्यात्। अचकास्त्वम्, अचकात् त्वं वा। अन्वशात् त्वम्, अन्वशास्त्वं वा।
पदस्येत्येव--चकास्सि। शास्सि।
-8-2-75- दश्च ।।
सिपि वान्तस्य पदस्य रुर्वा दकारो वा स्यात्। अभिनस्त्वम्। अभिनत् त्वं वा।
पदस्येत्येव--भिनत्सि।
-8-2-76- र्वोरुपाधाया दीर्घं इकः ।।
रेफवकारान्तस्य धातौरुपधाया इको दीर्घः स्यात्। गोः। गीर्भ्याम्। आशीः। पूः। धूः। वग्रहणमुत्तरार्थम्।
उपधाया इति किम् ? अबिभर्भवान्। धातोः किम् ? आग्नः। पदस्येत्येव--गिरौ। गिरः।
-8-2-77- हलि च ।।
हलि रेफवकारान्तस्य धातोस्तथा स्यात्। विस्तीर्णम्। दीव्यति। प्रतिदीव्ना।
धातोरित्येव--दिवमिच्छति दिव्यति।
अपदान्तार्थोऽयं योगः।
-8-2-78- उपधायां च ।।
धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घः स्यात्। मूर्च्छति। मूर्च्छिता।
कथं चतुर इच्छति चतुर्यतीति ? तर्हि व्याख्यातमेतद् भाष्ये--असुपीति वर्त्तते, तच्चेह षष्ठ्या विपरिणम्यते, ततो सुब्धातोर्न भवति। गीर्भ्याम्, गीर्भिरित्यत्र च सुप्यपि परतो भवत्येव।
इह तु रीधातोर्लिटि रिर्य्यतुः रिर्य्युरिति यणादेशस्य स्थानिवत्त्वेऽहल्परत्वान्न भवति।
-8-2-79- न भकुर्छुराम् ।।
एषामुक्तो दीर्घो नास्ति। भस्य--धुर्य्यः। कुर्--कुर्य्यात्। छुर छेदने, आशिषि--छुर्य्यात्।
कथं प्रतिदीव्ना ? हलि रेफवकारान्तस्य भस्येत्याश्रयणात्।
-8-2-80- अदसोऽसेर्दादु दो मः ।।
अः सेर्यस्य सोऽयमसिः। सकारे इकार उच्चारणाथः। असः कृतात्त्वस्यादसो दात् परस्यान्तरतम उवर्णः स्यात्, दस्य च मः। अमुम्। अमू। अमून्। अमुना।
असेः किम् ? त्यदाद्यत्वाभावे मा भूत्--अदः कुलम्। अद इच्छति अदस्यति। अदोऽञ्ञ्चतीति--
अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत्।
केचिदन्त्यसदेशस्य नेत्येके सेर्हि दृश्यते ।।
अमुमुयङ। अमुमुयञ्ञ्चौ। केचिदन्त्यसदेशस्य--अदमुयङ। यत्र सकारस्य त्यदाद्यत्वं तत्रेदं मुत्वं दृश्यते। नेत्येकेऽसेर्हि दृश्यते- अदद्र्यङ।
इह समासान्तर्वर्त्तिन्या विभक्तेर्लुकि न लुमताङ्गस्य इति प्रतिषेधात् त्यदाद्यत्वाभावः।
दादिति किम् ? अलोऽन्त्यस्य मा भूत्। अमुया। अमुयोः।
-8-2-81- एत इर्द् बहुबचने ।।
बह्वर्थस्यादसो दात्परस्य एत इर्त् स्यात्, दस्य च मः। अमी। अमीभिः। अमीषाम्। अमीषु।
बहुवचने किम् ? अमू कुले।
इह वाक्यस्य टेः इत्यादीनि स्वरसूत्राणि षडिं्वशतिः(1)।
(1.) तानि यथा--
-8-2-82- वाक्यस्य टेः प्लुत उदात्तः ।।
-8-2-83- प्रत्यभिवादेऽशूद्रे ।।
-8-2-84- दूराद्धूते च ।।
-8-2-85- हैहेप्रयोगे हैहयोः ।।
-8-2-86- गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम्।।
-8-2-87- ओमभ्यादाने ।।
-8-2-88- ये यज्ञकर्मणि ।।
-8-2-89- प्रणवष्टेः ।।
-8-2-90- याज्यान्तः ।।
-8-2-91- ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ।।
-8-2-92- अग्नीत्प्रेषणे परस्य च ।।
-8-2-93- विभाषा पृष्टप्रतिवचने हेः ।।
-8-2-94- निगृह्यानुयोगे च ।।
-8-2-95- आम्रे डितं र्भत्सने ।।
-8-2-96- अङ्गयुक्तं तिङाकाङ्क्षम् ।।
-8-2-97- विचार्यमाणानाम् ।।
-8-2-98- पूर्वं तु भाषायाम् ।।
-8-2-99- प्रतिश्रवणे च ।।
-8-2-100- अनुदात्तं प्रश्नान्ताभिपूजितयोः ।।
-8-2-101- चिदिति चोपमार्थे प्रयुज्यमाने ।।
-8-2-102- उपरिस्विदासीदिति च ।।
-8-2-103- स्वरितमाम्रे डितेऽसूयासम्मतिकोपकुत्सनेषु ।।
-8-2-104- क्षियाशीःप्रैषेषु तिङाकांक्षम् ।।
-8-2-105- अनन्त्यस्यापि पत्राख्यानयोः ।।
-8-2-106- प्लुतावैच इदुतौ ।।
-8-2-107- एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ।।
-8-2-108- तयोय्यर्वावचि संहितायाम् ।।
संहितायाम् इत्या अध्यायपरिसमाप्तेधिक्रियते।
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
सूत्रेस्वपि तथा नित्या सैवान्यत्र विभाषया ।।