बृहत्संहिता/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ बृहत्संहिता
अध्यायः १४
वराहमिहिरः
अध्यायः १५ →

१४ नक्षत्रकूर्माध्यायः ।।

 नक्षत्रत्रयवर्गैराग्नेयाद्यैर्व्यवस्थितैर्नवधा ।
 भारतवर्षे *मध्य[क्.मध्यात्]प्रागादिविभाजिता देशाः ।। १४.०१ ।।

 भद्रारिमेदमाण्डव्यसाल्वनीपौज्जिहानसंख्याताः ।
 मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ।। १४.०२ ।।

 माथुरकौपज्योतिषधर्मारण्यानि शूरसेनाश्च ।
 गौरग्रीवौद्देहिकपाण्डुगुडाश्वत्थपाञ्चालाः ।। १४.०३ ।।

 साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः ।
 औदुम्बरकापिष्ठलगजाह्वयाश्चैति मध्यं इदम् ।। १४.०४ ।।

 अथ पूर्वस्यां अञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः ।
 व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च ।। १४.०५ ।।

 खसमगधशिबिरगिरिमिथिलसमतटौड्राश्ववदनदन्तुरकाः ।
 प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः ।। १४.०६ ।।

 उदयगिरिभद्रगौडकपौण्ड्रौत्कलकाशिमेकलाम्बष्ठाः ।
 एकपद*ताम्रलिप्तक[क्.तामलिपितक]कोशलका वर्धमानाश्च ।। १४.०७ ।।

 आग्नेय्यां दिशि कोशलकलिङ्गवङ्गौपवङ्गजठराङ्गाः ।
 शौलिकविदर्भवत्सान्ध्रचेदिकाश्चऊर्ध्वकण्ठाश्च ।। १४.०८ ।।

 वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी ।
 श्मश्रुधर*हेमकुड्य[क्.हेमकूट्य]व्यालग्रीवा महाग्रीवाः ।। १४.०९ ।।

 किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः ।
 सह नग्नपर्णशबरैराश्लेषाद्ये त्रिके देशाः ।। १४.१० ।।

 अथ दक्षिणेन लङ्काकालाजिनसौरिकीर्णतालिकटाः ।
 गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः ।। १४.११ ।।

 कङ्कट*कङ्कण[क्.टङ्कण]वनवासिशिबिकफणिकारकोङ्कणऽभीराः ।
 आकरवेणा*आवर्तक[क्.आवन्तक]दशपुरगोनर्दकेरलकाः ।। १४.१२ ।।

 कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः ।
 क्रौञ्चद्वीपजटाधरकावेर्यो रिष्यमूकश्च ।। १४.१३ ।।

 वैदूर्यशङ्खमुक्ताअत्रिवारिचरधर्मपट्टनद्वीपाः ।
 गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ।। १४.१४ ।।

 तुम्बवन*कार्मणयक[क्.ऊ.कार्मणेयक]याम्योदधितापसाश्रमा ऋषिकाः ।
 काञ्चीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः ।। १४.१५ ।।

 बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः ।
 कच्छो +अथ कुञ्जरदरी सताम्रपर्णीइति विज्ञेयाः ।। १४.१६ ।।

 नैरृत्यां दिशि देशाः पह्लवकाम्बोजसिन्धुसौवीराः ।
 वडवामुखारवाम्बष्ठकपिलनारीमुखऽनर्ताः ।। १४.१७ ।।

 फेणगिरियवन*मार्गर[क्.माकर]कर्णप्रावेयपारशवशूद्राः ।
 बर्बरकिरातखण्ड*क्रव्याद[क्.क्रव्याश्या]आभीरचञ्चूकाः ।। १४.१८ ।।

 हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रबादरद्रविडाः ।
 स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवो +अत्रएव ।। १४.१९ ।।

 अपरस्यां मणिमान्मेघवान्वनौघः क्षुरार्पणो +अस्तगिरिः ।
 अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ।। १४.२० ।।

 पञ्चनदरमठपारततारक्षितिजृङ्गवैश्यकनकशकाः ।
 निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च ।। १४.२१ ।।

 दिशि पश्चिमोत्तरस्यां माण्डव्य*तुषार[क्.तुखार]तालहलमद्राः ।
 अश्मककुलूत*हलडाः[क्.हड]स्त्रीराज्यनृसिंहवनखस्थाः ।। १४.२२ ।।

 वेणुमती फल्गुलुका गुलुहा मरुकुच्चचर्मरङ्गाख्याः ।
 एकविलोचनशूलिकदीर्घग्रीवऽस्यकेशाश्च ।। १४.२३ ।।

 उत्तरतः कैलासो हिमवान्वसुमान्गिरिर्धनुष्मांश्च ।
 क्रौञ्चो मेरुः कुरवस्तथाउत्तराः क्षुद्रमीनाश्च ।। १४.२४ ।।

 कैकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः ।
 *आदरान्तर्द्वीपि[क्.ऊ.आदर्शान्तद्वीपि]त्रिगर्त*तुरगाननाः श्वमुखाः[क्.तुरगाननाश्वमुखाः] ।। १४.२५ ।।

 केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
 तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च ।। १४.२६ ।।

 अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः ।
 माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ।। १४.२७ ।।

 गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च ।
 यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च ।। १४.२८ ।।

 ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
 अभिसारदरदतङ्गणकुलूत*सैरिन्ध्र[क्.सैरिन्ध]वनराष्ट्राः ।। १४.२९ ।।

 ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः ।
 *भल्लाः पटोल[क्.भल्लापलोल]जटासुर*कुनटखस[क्.कुनठखष]घोषकुचिकाख्याः ।। १४.३० ।।

 एकचरण*अनुविद्धाः[क्.अनुविश्वाः] सुवर्णभूर्*वसुधनं[क्.वसुवनं] दिविष्ठाश्च ।
 पौरव*चीरनिवासि[क्.चीरनिवासन]त्रिनेत्रमुञ्जाद्रि*गान्धर्वाः[क्.गन्धर्वाः] ।। १४.३१ ।।

 वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
 पाञ्चालो मागधिकः कालिङ्गश्च क्षयं यान्ति ।। १४.३२ ।।

 आवन्तो +अथऽनर्तो मृत्युं चऽयाति सिन्धुसौवीरः ।
 राजा च हारहौरो मद्रेशो +अन्यश्च कौणिन्दः ।। १४.३३ ।।