पृष्ठम्:SukavihRdayAnandinI.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27

अष्टत्रंशद्भवन्ति । ततो दलेऽर्थे कृते सति एकोनविंशतिर्गुरवो भवन्तीति प्रमाणं नियतं वृत्तस्येति । ३८

शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम्‌ । सगुरुशकलयुगलकमपि सुपरिघटिततलितपदनिचिति भवति शिखा ॥ ३९

शिविभिसिभिर्गुणितैर्दशभिर्लघुभी रचितं कृतं तच्च तदपगतलघुयुगलं च तथोक्त अष्टाविंशल्लघुकमित्यर्थः । अपरं दितीयमिदमर्धमखिलं संपूर्णं त्रिंशल्लघुकमित्यर्थः । शकलयुगलकमपि अर्धद्रयममपि सगुरु सह गुरुणा वर्ततेति सगुरु यदा भवति तदा शिखा नाम भवति । सुपरिघटितानि ललितपदानि तेषां निचिती रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम्‌ । यथा ।

मलयपवनचवितसुविकचविचिकलमनिरधिवसति मुदितमनाः । शुभितसमयमुदितपिकयुवतिरपि'“ परिमलबहूलबकुलतरुशिखा ॥

चूलिकेति वक्तव्ये । छदोभंगभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः । ३९

विनिमयविहितशकलयुगललघुललितपदविततिरचितगणनिचया । श्रुतिसुखकृदियमपि जगति जशिर उपगतवति नि सति भवति खजा ॥ ४०

सैव शिखा विनिमयेन व्यत्यासेन!“ विहितं शकलयुगलमर्धद्रयं ललितपदवितत्या रचितगणनिचया यदा भवति तदा खजा नाम । क्व सति । नि सति । जि चवर्गीयपंचमस्य चवर्गीयतृतीयस्य शिर उर्ध्वविभागस्तस्मिन्नुपगतवति । कोऽर्थः । खन्जेत्यर्थः । यथा ।

ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे । सुपरिहतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥

एकगुरुणि छदसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम्‌ । ४१

अष्टावर्धं गा दव्यभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।


° पाठे सुभितसमयमुदितपिकयुवतिरपि । 1 पाठे व्यत्यशेन । व्यत्ययेन व्यत्यासेन वा भवेत्‌ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२७&oldid=371592" इत्यस्माद् प्रतिप्राप्तम्