पृष्ठम्:SukavihRdayAnandinI.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26

अष्टाभ्योऽथ गलावुपचित्रा | ३६

लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा उपचित्रा नाम । यथा । मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या । तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत्‌ ॥ ३६

यदतीतकृतविविधलक्ष्मयुतै्मात्रासमकादिपदैः कलितम्‌ । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम्‌ ॥ 3७

अतीतं प्रागुक्तं कृतं लक्ष्म लक्षणं येन तेन युतैः सहितैः मात्रासमकविश्नोकवानवासिकाचित्रोपचित्राणां पादैश्चरणैः कलितं युक्तं अनियतवृत्तपरिमाणसहितं अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम्‌ । कोऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः पादाकुलकमिति कथितम्‌ । अत्र मात्रासमकविश्षौकवानवासिकाचित्रोपचित्राणामुदाहरणम्‌ । यथा । दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके ।

मुग्धे मन्मथसुहदवसन्ते पादाकुलकं याति पतिस्ते ॥

तथा विक्षोकोपचित्रादिपादैर्यथा ।

वाताहतदलपडकजनेत्रे असितदुकूलाच्छादितगात्रे ।

कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम्‌ ॥

एवमन्येऽपि महाकविप्रयोगा यथा |

चत्वरमण्डपतरुमूल्ानि संचितसलिलान्यवकूलानि ।

क्वचिदपि न भवति भिक्षाहानिः तक्किं क्रियते मानम्ल्ानिः ॥

अन्ते यमक इत्याम्नायः । 3७

अधुना गरुलदघुघ्रमाणमाह | वृत्तस्य लो विना वर्ण्गा वर्णा गुरुभिस्तथा गुरवो वैदे नित्यं प्रमाणमिति निश्चितम्‌ ॥ ३८

यस्य कस्यचिदृत्तस्य लः कला मात्रा वर्णरक्षरैर्विना गुरवो भवन्ति । वर्णी गुरुभिस्तथा ताः कला गुरुभिर्विना वर्णी न भवन्ति । गुरवो वैदल नित्यं ता एव कला वैर्लघुभिर्विना दलेऽर्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपंचाशत्कलावर्णैः दात्रिंशद्धि्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्रिंशद्धवन्ति । पुनस्ता कला एकपंचाशत्त्रयोदशकिर्वघुभिर्विना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२६&oldid=371601" इत्यस्माद् प्रतिप्राप्तम्