पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् विश्वकर्मणः प्राणाश्च सुरादयः समपश्यन्त सम्यग् दृष्टवन्तः स्वस्वं 'विषयं रूपादिकं 'विश्वे सर्वे । पूर्वे प्रथमजाः | यस्मात् श्राद्ये शरीरे पूर्वविषयोपादानप्रवृत्तिः तस्मात् पूर्वत्वव्यपदेशः ॥ १५ ॥ वेङ्कट० परस्ताद् दिवः परस्ताच्च अस्याः पृथिव्याः परस्ताच्च देवासुरेभ्यो गुहायाम् यत् भवति । तम् कम् खित् प्रथमम् आपः गर्भम् धृतवरयः, यस्मिन् वर्तमानाः देवाः समपश्यन्त सर्वे सङ्गताः इतरेतरं पश्यन्तीति जानत एव कस्पचित् प्रभः ॥ ५ ॥ सू ८२, मं ६ ] · + तमिद्गर्भं प्रथ॒मं द॑ध्र आपो॒ यत्र॑ दे॒वाः स॒मम॑च्छन्त॒ विवे॑ । अ॒जस्य॒ नाभि॒ावध्येक॒मप॑तं॒ यस्मि॒न्॒ विश्वा॑नि॒ भुव॑नानि॒ त॒स्थुः ॥ ६ ॥ तम् । इत् । गर्म॑म् । प्र॒थ॒मम् । द॒त्रे॒ । आप॑ः । यत्र॑ । दे॒वाः । स॒मूऽअग॑च्छन्त । विश्वे॑ । अ॒जस्य॑ । नाभौ । अधि॑ि । एक॑म् । अर्पितम् । यस्मिन् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥ ६ ॥ । उद्गीथ० तम् इत् तमेव प्रजापति विश्वकर्माणम् गर्भम् प्रथमम् अन्यस्माद् विकारात पूर्वम् दधे धारितवत्यो जगत्कारणभूताः आपः, यत्र यस्मिन् विश्वकर्मणि प्रजापती देवाः विषयक्रीडनकैः श्रीडनशीलाच सुरादयः प्राणाः विश्वे सर्वे सप्तदशापि लिङ्गशरीरनिमित्ताः समगच्छन्त सङ्गतवन्तः, लिङ्गशरीरभावेन एकीभूताः क्षीरं दकवत् सम्मूर्च्छिता इत्यर्थः । किञ्च यस्मिन् विधारके विश्वकर्मणि प्रजापतौ विश्वानि सर्वाणि 'भुवनानि भूतानि' तस्थु प्रोतन्यायेन अवस्थितानि सूत्रे मणिगणा तस्य अजस्य नित्यस्य नाभौ अधि नाभेरुपरि अन्तरण्ड बहिरण्ड च व्याप्य व्यवस्थितस्य मध्यवर्तित्वाद् नाभिभूतस्य अन्तरण्डवर्तिनो विकारात्मनो मध्ये एकम् अर्पितम् इत्यर्थः ॥ ६ ॥ वेङ्कट० तम् एव विश्वकर्माणम् प्रथमम् दधे आपः, यत्र देवाः सङ्गताः सर्वे | तस्य अजस्य नाभौ एक्म् अर्पितम् इत्यण्डाभिप्रायम् । अण्डं हि प्राग् विसर्गानाभिस्थाने तिष्ठति । ग्रम्मिन् भण्डे विश्वानि भूतानि तिष्ठन्तीति ॥ ६ ॥ न तं वि॑िदाय॒ य इ॒मा ज॒जाना॒ान्ययुष्माक॒मन्त॑रं बभूव । नी॑ह॒ारेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒दप॑ उक्य॒शास॑श्चरन्ति ॥ ७ ॥ न । तम् । त्रि॒ाथ॒ । यः । इ॒मा । ज॒जान॑ | अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒त्र॒ नी॒रेण॑ । प्रावृ॑ताः । जप्या॑ । च । असु॒ऽतृप॑ः । उ॒त्र्य॒ऽशस॑ः । च॒र॒न्ति॒ ॥ ७ ॥ उद्गीथ वेदशास्त्रार्यानभिज्ञा केवलतारिका उच्यन्ते - यः विश्वकर्मा इमा इमानि भूतानि जजान जनितवान् तम् विश्वकर्माणम् न विदाथ न विज्ञानीथ यूयम् । यत एवम् अतः कारणात् युध्माकम् च विश्वकर्मरूपम् अजानतां तेषां च सहिदाम् अन्यद् अन्तरम् बभूव महान् विशेषो जात इत्यर्थः । कथम् अतद्विदो चयम्, ते च वेदशास्त्रविदः तद्विद इति चेत्, यतो यूयम् नीहारेण प्रावृता. नीद्वारेण तत्सदशेन" तमोरूपेण परमार्थवरस्वाच्छादकेन वेदार्थापरिज्ञान- } ३.३. नास्ति मूको. ४. चित् ८-८. भूतानि भुव विभ. 9स सम° मूको. २-२. विषय वि: विपयरुदितं वि अ. विश', ५. ति वि . ६. 'इनम् वि' म'. ७७. नास्ति वि. ९. मध्यमध्यम मूको. १०. हनीतिम'. ११. सदर्शन मूको. ऋ०४५५