पृष्ठम्:Laghu paniniyam vol1.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w लघुपाणिनीये १४४ । अनो बहुव्रीहे: । (४-१-१२) अन्नन्तात् बहुव्रीहेर्न ङीप् । सुपर्वन्– सुपर्वा सुपर्वाणौ । | सुशर्मन्– सुशर्मा सुशर्माणौ । पामा पामे सीमा सीमे १४५ । डाबुभाभ्यामन्यतरस्याम् । (४-१-१३) मन्नन्तात् प्रातिपदिकात्, अन्नन्तात् बहुव्रीहेच डापू वा स्यात् । डित्प्रत्यये परे प्रकृतेष्टिलोपं वक्ष्यति । अतो डापि परे प्रकृतेष्टिर्लुप्यते । अत्र च 'अन्' इति टि: (२१) । यथा- पामन् + आ–टिलोपे पाम् + आ । सुपर्वा पामाः । सुपर्वे सीमाः । सुशर्मा सुशर्मे [स्त्री प्रत्यय - सुपर्वाः । सुशर्माः । विकल्पात् पामानौ, पामान: ; सुशर्माणौ, सुशर्माण: इत्याद्यपि । १४६ । अनुपसर्जनात् । (४-१-१४) - अधिकारोऽयम्; इत ऊर्ध्वं विधीयमानाः स्त्रीप्रत्यया अनुपसर्ज- नादेव प्रातिपदिकात् भवेयुः । लिङ्गं हि द्विविधं संभवति - विशेष्या- णां प्रतिनियतं स्वं स्वं लिङ्गं प्रधानम, विशेषणानां विशेष्यानुरोधेन भिद्यमानमप्रधानम्; तत्राप्रधानं लिङ्गमुपसर्जनमित्युच्यते । वृक्षशब्दो विशेष्यो नियतपुल्लिङ्गः ; बहुवृक्षा पुष्पवाटी, बहुवृक्षमुद्यानम् इति विशे- षणावस्थायां विशेष्यनिघ्नं लिङ्गम् । अत एव ज्ञापकात् पूर्वोक्ता विध- यस्तदन्तेष्वपि भवन्ति । बहवः शाखिनो यत्र सा बहुशाखिनी अटवी इति नान्तलक्षणो ङीप् | वक्ष्यमाणास्तु स्त्रीप्रत्ययाः प्राधान्य एव स्युः ।। १४७ । टिड्ढाणञ् द्वयसज् दनञ् मात्रच तयप्- ठक् ठञ् कञ् क्करपः । (४-१-१५) टिङ्क्यो ढादिप्रत्ययान्तेभ्यश्चादन्तेभ्यः प्रातिपदिकेभ्यः अनुपसर्जने स्त्रीत्वे ङीप् स्यात् ; ‘अत....' (१३९) इति टापोऽपवादः । यथा -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८५&oldid=347451" इत्यस्माद् प्रतिप्राप्तम्