पृष्ठम्:Laghu paniniyam vol1.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी [स्त्रीप्रत्यय ङयाब्विधिप्रस्तावेऽस्मिन् ‘ङ याप्प्रातिपदिकात्' इत्यधिकार- सूत्रे याबिति भागो योग्यताविरहादुपेक्ष्यते । अजादिगणपठितेभ्यः प्रातिपदिकेभ्यः, अदन्ताच्च प्रातिपदिकात् स्त्रियां द्योत्यायां टाप् इति प्रत्ययः परः स्यात् । 'चुटू' (१५) इति टकारस्य, 'हलन्त्यम्' (११) इति पकारस्य च इत्संज्ञायां लोपे 'आ' इत्येव प्रत्ययस्वरूपम् । यथा— अतः- ६४ विशेष्यनिघ्नाः समर्थ - समर्था वृद्ध -वृद्धा विरूप — विरूपा कुपित — कुपिता - जातौ -अजा वयसि – बाला = नियतलिङ्गाः । खट्व— खट्वा - | माल - माला भिक्ष – भिक्षा खट्टालतादयो नित्यस्त्रीलिङ्गा अपि शब्दाः स्वभावाददन्ता एव, पश्चात् स्त्रीत्वविवक्षायां टाप्प्रत्ययेन आदन्ताः संपद्यन्ते इति सिद्धान्तः । प्रक्रि- यार्थश्चायमायासः । अजादे:- 1 लत - लता एडका चटका अश्वा मूषिका शूद्रा वत्सा मन्दा वियाता होढा पाका पुंयोगे – ज्येष्ठा कनिष्ठा मध्यमा - जातौ वयसि पुंयोगे च वक्ष्यमाणं ङीप्रत्ययं बाधितुं अदन्ता एव शब्दा गणेऽस्मिन् पठिताः । - १४० । ऋन्नेभ्यो ङीप् । (४-१-५) ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप्- प्रत्यय: स्यात् । 'लशक्कतद्धिते' (१६) इति ङकार इत् । यथा— कर्तृ – कर्त्री, होतृ – होत्री, छत्रिन्– छत्रिणी, दण्डिन्-- दण्डिनी। १४१ । उगितश्च । (४-१-६) - - उक् इति उ, ऋ, ऌ एषां प्रत्याहारः; एते इतो येषां ते उगितः । उगिङ्ग्य: उगित्प्रत्ययान्तेभ्यो वा प्रातिपदिकेभ्यो ङीप् स्यात् । । यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८३&oldid=347449" इत्यस्माद् प्रतिप्राप्तम्