पृष्ठम्:Laghu paniniyam vol1.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभाग: ] शिक्षाकाण्ड: । , वषट्, वौषट्, स्वाहा, स्वधा, ओम्, किल, तथा, अथ, सु, स्म, अस्मि, तत्, किं, पुरा, धिक्, हा, हे, अहो, उताहो, आम्, अथो, हि इत्यादि । १३२ । प्रादयः । (१-४-५८) प्रादयोऽप्यसत्ववाचिनो निपातसंज्ञाः स्युः । प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप एते प्रादयः । प्रादीनां बहुत्रो- पयांगात्ते कारिकया परिगण्यन्ते- प्रविपरापसमन्ववनिर्निसो दुरति दुष्प्रति सूदद्धि पर्यपि । (तदनु) चाङभिनी उप, विंशतिर्द्विसहितेत्युपसर्गसमाह्वयाः ॥ आङ् इत्यत्र ङकार इत् 'आ' इति निपातान्तरव्यावर्तनार्थकः । १३३ | उपसर्गाः क्रियायोगे । (१-४-५९) क्रियावाचकशब्दयोगे प्रादय उपसर्गसंज्ञाः स्युः । १३४ । गतिश्च । (१-४-६०) ६१ प्रादयः क्रियायोगे गतिसंज्ञाश्च स्युः । उभयसंज्ञाप्रयुक्तानामपि कार्याणां संग्रहाय उभयसंज्ञाकरणम् । प्रादयो धातुयोगे गत्युपसर्ग- संज्ञाः, प्रातिपदिकयोगे केवलावस्थायां च निपातमात्रमिति विवेकः । एष्वेव केषांचिदर्थविशेषे कर्मप्रवचनीयसंज्ञा विधास्यते । एवं पट्टिकायां दर्शिता निपातविभागा लक्षिताः । यास्कादयस्तु प्राचीना उक्तं हठात्कारं विना 'नामाख्याते चोपसर्गनिपाताश्च' इति चतुधैव पदं विभक्तवन्तः ॥ ॥ इति शब्दविभागः शिक्षाकाण्डश्च ॥ गुड

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८०&oldid=347446" इत्यस्माद् प्रतिप्राप्तम्