पृष्ठम्:Laghu paniniyam vol1.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [शब्द भाषान्तरेषु बहुधा विभक्तान्यपि पदानि संस्कृते द्विविधान्येवेति पट्टिकैषा प्रदर्शयति । अत्र असत्ववाचिनां निपातानां नामस्वन्तर्भावनं पाणिनेर्बलात्कार एव । ते हि प्रकृत्या विभक्तियोगानर्हाः कथं सुबन्ता भवितुमर्हन्ति ? संकटेऽस्मिन्नाचार्य: 'सुप्तिङन्तं पदम्' (१२८) इति स्वप्रतिज्ञां सत्यापयितुं निपातेष्वपि सुप्प्रत्ययमुत्पाद्य लोपयति । प्रथमा- विभक्तिर्नपुंसकलिङ्गमेकवचनं च सामान्यमिति कृत्वा लुप्तप्रथमैक- वचनान्ता निपाता इति कल्पयत्याचार्यः । तथा च तेन सूत्रितम्- १२९ । अव्ययादाप्सुपः । (२-४-८२) अव्ययात् परस्य आपः सुपश्च लुक् (= लोपः) स्यात् । आप इति स्त्रीलिङ्गप्रत्ययस्योपलक्षणम् । तथा चाव्ययानां लिङ्गविभक्तिवचन- भेदो नास्तीति फलितम् । O 6 'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ' इत्यन्वर्था चाव्ययसंज्ञा । न, व्येति विकारं प्राप्नोतीत्यव्ययम् । निपाता- नां चाव्ययत्वमुक्तम्- १३० । स्वरादिनिपातमव्ययम् । (१-१-३७) स्वरादिगणपठिताः शब्दाः, निपाताश्चाव्ययसंज्ञाः स्युः इति । एवं च ' न केवलः प्रत्ययः प्रकृतिर्वा प्रयोक्तव्यः' इति वैयाकरणानां सिद्धान्तः । यत्र सुप्तिङोर्योगो दुर्घटो भवति तत्रापि प्रथमैकवचनं लुप्त- मस्तीति प्रतिज्ञायते । निपाता: परिमिता इति ते गणेन परिगणिता:; तथा हि — 16TE १३१ । चादयोऽसत्वे (निपाता:) । (१-४-५७) सत्वं = द्रव्यम् । अद्रव्यार्थे वर्तमाना: (संबन्धादिद्योतका:) चा- दिगणपठिता निपाताः स्युः । च, व, ह, एव, एवं, नूनं शश्वत्, युग- पत्, चेत्, कच्चित्, हन्त, माकिं, नकिं, माङ, नन्, यावत्, तावत्,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७९&oldid=347445" इत्यस्माद् प्रतिप्राप्तम्