पृष्ठम्:Laghu paniniyam vol1.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Begal dodg.: शिक्षाकाण्डः । प्रकरणम् ] सार्वत्रिकोऽयं विधिरिति कृत्वा वाचयितारः स्वयमेव वाचयिष्यन्तीति बुद्ध्या लिपिकारा द्विरुक्त्य वर्ण द्विर्न लिखन्तीति संप्रदाय: । अत: 'सुध्यर्च्य: ', ' मध्वरि: ', 'क्षत्रियस्त्री' इति लिखितान्यपि पदानि ‘सुद्ध्यर्च्य:', 'मद्ध्वरि: ', 'क्षत्रियस्स्त्री' इत्येव वाचनीयानि । शाक- ल्यादीनां मते द्वित्वस्यास्य प्रतिषेधाः 'त्रिप्रभृतिषु शाकटायनस्य' इत्यादिभिरुत्तरसूत्रैः पाणिनिनैव दर्शिताः, तथापि संयोगद्वित्वाभाव आर्षेष्वेव प्रयोगेषूपलभ्यते । कांव्येषु तु ‘प्रहे वा' इति पिङ्गलसूत्रस्य उदाहरणभूताः इत्यादयो द्वित्रा एव प्रयोगा दृश्यन्ते । - ‘झटिति प्रविश गेहं मा बहिस्तिष्ट बाले ' 'द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः 0000000-0000 = ११० । झलां जश् झशि । (८-४-५३) झशि परे झलां जशादेश: स्यात् । 'झलां जशोऽन्ते' (६९) इति पदान्ते पूर्वमेव जश्त्वविधानात् अपदान्तार्थोऽयमारम्भः । यथा- सुध् + ध्यर्च्च्यः = सुद्ध्यच्र्च्यः । लभ् + धं ५१ दुघ् + धं = दुग्धम् । इध् + ध = इद्धम् । लब्धम् । १११ । अभ्यासे चर्च । (८-४-५४) षष्टाध्यायोक्ते अक्षरद्वित्वे द्विरुक्तपूर्वभागस्य ‘अभ्यासः' इति संज्ञा । अभ्यासे स्थितानां झलां जशश्चरश्च स्युः । तत्रान्तरतम्यात् झशां जशः, खरां चर इति विवेकः । अतिखराणां खरा:, घोषाणां मृदवञ्च आदेशाः स्युः इति तात्पर्यम् । यथा— H भभूव = बभूव । धधौ = दधौ । = झघान = जघान । थस्थौ तस्थौ । छिच्छेद = चिच्छेद । फफाल = पफाल ।] ११२ । खरिच | (८-४-५५) खरि परे झलां चर आदेशाः स्युः । इदं पदान्ते अपदान्ते च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७०&oldid=347436" इत्यस्माद् प्रतिप्राप्तम्