पृष्ठम्:Laghu paniniyam vol1.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासान्ता:] आकाङ्क्षाकाण्डः । (२० | १७१९ | अबसमन्धेभ्यस्तमसः । (५-४-७९) २३१ अवतमसं, सन्तमसम्, अन्धतमसम् । १७२० । तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः । (५-४-८६) धंगुलं व्यंगुलम् इत्यादि । १७२१ । अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः । (५-४-८७) अहोरात्रः, सर्वरात्रः, पूर्वरात्रः इत्यादि । तत्पुरुषस्येत्यनुवृत्तावपि अहनूशब्दप्रह- णसामर्थ्यादहोरात्र इति द्वन्द्वेऽप्यच् । अत्र तत्पुरुषो हि दुस्साधः । १७२२ । अड्डो एतेभ्यः । (५-४-८८) सर्वेकदेशादिभ्यः । सर्वाहः, पूर्वाह्नः, प्राह इत्यादि । , १७२३ । न संख्यादे: समाहारे । (५-४-८९) द्वयोरहोः समाहारः व्यहः, त्र्यहः, दशाहः । अन्न वक्ष्यमाणे टचि 'अह्नष्टखोरेव' इति टिलोप एव || १७२४ । उत्तमैकाभ्यां च । (५-४-९०) ४३३ उत्तमम् ‘अहस्सर्वे...’-त्यत्रान्त्यं, पुण्यशब्दः । पुण्याहम्, एकाहम्। १७२५ । राजाहःसखिभ्यष्टच् । (५-४-९१) एतदन्तात्तत्पुरुषाट्टच् । महाराजः, वायुसखः, पुण्याहम् । १७२६ । गोरतद्धितलुकि । (५-४-९२) पञ्चानां गवां समाहारः पञ्चगवम् । तद्धितलुकि तु पञ्चभिर्गोभिः क्रीतं पञ्चगु । द्विगोरपि तत्पुरुषत्वादयं समासान्त: । कृष्णा गौः कृष्णगवी । राज्ञो गौः राजगवी । टित्वाद् ङीप् । १७२७ । द्वन्द्वाच्चुदषहान्तात्समाहारे। (५-४-१०६) चवर्गदुषहकारान्ताद् द्वन्द्वात्समाह।रार्थकाट्टच् । वाक्त्विषम् । छत्रो- वाक् च त्वक् च वाक्त्वचं, त्वक्त्रजम् । शमीदृषदम् । वाक्त्विष

  1. पानहम् । असमाहारे तु प्रावृट्छरदौ ।

28

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५२&oldid=348049" इत्यस्माद् प्रतिप्राप्तम्