पृष्ठम्:Laghu paniniyam vol1.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी [समासप्रक० १७१४ । बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३) ‘संख्ययाव्ययाः....’ (१६०९) इति संख्येये बहुव्रीहिर्विहितः। ४३२ तत्र डच् समासान्तः । न तु बहुगणान्तात् । यथा— उपदशाः पञ्चषाः । बह्वन्ते तु उपबहवः । डित्त्वात् भस्य टिलोपः । त्रिचतुरशब्दस्तु 'त्र्युपाभ्यां चतुरोऽजिष्यते' इत्यच्प्रत्ययान्तः ।। १७१५ । ऋक्पूरब्धूःपथामानक्षे । (५-४-७४) अ, अनक्ष इति च्छेदः। बहुव्रीहाविति नानुवर्तते । अतः समास- मात्रस्यायं विधिः । ऋगाद्यन्तस्य समासस्य 'अ' प्रत्ययः समासान्तः । यथा- - iTh ऋचोऽर्धम् अर्धर्चः कृष्णस्य पूः कृष्णपुरम् विमला आपो यत्र विमलापं सरः अक्षस्य धूः अक्षधुरा । सतां पन्थाः सत्पथः । ‘व्यन्तरुपसर्गेभ्योऽप ईन्' 'ऊदनोर्देशे' इति सूत्राभ्याम् 'अप्' शब्दा- कारस्य - ईत्व ऊत्वयोर्विधानात् द्वीपम्, अन्तरीपं परीपम्, अनूपम् इति रूपसिद्धिः ॥ १७१६ | अच्प्रत्यन्ववपूर्वात् सामलोम्नः । (५-४-७५) अच् समासान्तः । 'नस्तद्धिते' इति टिलोपः । प्रतिसामं, प्रतिलोमम् इत्यादि । कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते । कृष्णभूमः, द्विभूमः, सप्तभूमः, प्रासादः । भूमिरत्र भूमिका । १७१७ | अक्षणोऽदर्शनात् । (५-४-७६) गवामक्षीव गवाक्षः । १७१८ । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहक्र्सामवाश्मन- साक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिन्दिवाहर्दिव- सरजसनिःश्रेयसपुरुषायुषड्यायुषर्ग्युजुषजातोक्षम होक्षवृद्धोक्षोपशुनगोष्ठश्वाः । (५-४-७७) GDF पञ्चविंशतिरजन्ता निपात्यन्ते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५१&oldid=348048" इत्यस्माद् प्रतिप्राप्तम्