पृष्ठम्:Laghu paniniyam vol1.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

४२० लघुपाणिनीये [समासप्रक० प्लक्षन्यग्रोध,-धा:-वृक्ष। गोमहिषं,- -षा:-पशु । रुरुपृषतं -ता:-मृग। तित्तिरिकपिजलम् ,लाः-शकुनि । कुशकाशं ,-शा:-तृण। अश्वबडवं, -वौव्रीहियवं -वाः-धान्य। पूर्वापरं -रे - दधिघृतं ,ते - व्यज । अधरोत्तरं, 1 -रे॥*॥ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्॥ IHOT बहुवचनानां द्वन्द्व एवैषामेकवद्भावः । यथा बदराणि चामलकानि च बदरामलकम् । बदरं चामलकं च बदरामलके इत्येव । अत एव प्रकृतसूत्रोदाहरणे प्लक्षन्यग्रोधाः रुरुपृषता इत्यादि बहुत्वं दर्शितम् । १६३८ । विप्रतिषिद्धं चानधिकरणवाचि । (२-४-१३) परस्परविरुद्धानामद्रव्यवाचिनां च द्वन्द्वो वैकवत् । यथासीतोष्णं,–णे। सुखदुःखं,-खे। जीवितमरणं,-णे। riyal द्रव्यवाचित्वे तु शीतोष्णे उदके इत्येव ॥ १६३९ । न दधिपयआदीनि । (२-४-१४) दधिपयसी, सर्पिर्मधुनी, शुक्लकृष्णौ, इध्माबर्हिषी इत्यादि। १६४० । अधिकरणैतावत्त्वे च । (२-४-१५) आश्रयपदार्थस्यैतावत्त्वे संख्याविशेषे निर्णीतेऽपि नैकवद्भावः । यथा-दश दन्तोष्ठाः । षट् करितुरगाः। TRERY १६४१ । स नपुंसकम् । (२-४-१७) , द्विगुरेकवचनमित्यादिना प्रकरणेन यस्यैकवचनं विहितं स समासो नपुंसकं स्यात् । तथैव चोदाहृतम् । द्विगोः' इति डीब्विधानाददन्तोत्तरपदो द्विगुः स्त्रियाम् । अन्यत्र दशगवमित्यादावेव तस्य नपुंसकता ॥ Hendyn ॥ पात्राद्यन्तस्य न ॥ पञ्चपात्रं, त्रिभुवनं, चतुर्युगम् । १६४२ । अव्ययीभावश्च । (२-४-१८)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३९&oldid=348036" इत्यस्माद् प्रतिप्राप्तम्