पृष्ठम्:Laghu paniniyam vol1.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वन्द्वैकवद्भावः] आकाङ्क्षाकाण्डः । १६३२ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२) प्राण्यङ्गानां द्वन्द्व एकवचनं, तूर्याङ्गानां सेनाङ्गानां च तथा । इतरेतरयोगे समाहारे च द्वन्द्वो विहितः । तत्र समाहारस्यैकत्वादेक- चचनं सिद्धमेव । इतरेतरयोगेऽपि प्राण्यङ्गादीनामेकत्वसिद्ध्यर्थमारम्भः । “न दधिपयआदीनि' इति एकत्वनिषेध: समाहारेऽपि द्विबहुवचन- सिद्ध्यर्थः । एवं च प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधिपयआदीनां तु इतरेतरयोग एवेति फलितम् । 'विभाषा वृक्ष...' इत्यादीनां येषा- मेकवचनं विकल्पितं तेषामेव उभयोरपि द्वन्द्वः । यथा— पाणिपादं, शिरोग्रीवं—प्राण्यङ्गानाम् । मार्दङ्गिकपाणविकं—तूर्याङ्गानाम् । रथपादातं, हस्त्यश्वं—सेनाङ्गानाम् । (१६३३ । जातिरमाणिनाम् । (२-४-६) जातिवाचिनां द्वन्द्व एकवत्, न तु प्राणिवाचिनाम् । मृत्पाषाणम्, धानाशष्कुली (१६३४ । क्षुद्रजन्तवः । (२-४-८) द्वन्द्वे एकवत् स्युः । यथा— यूकालिक्षं, दंशमशकम् । १६३५ । येषां च विरोधः शाश्वृतिकः । (२-४-९) मार्जारमूषकम् । श्वसृगालम् । अहिनकुलम् । काकोलूकम् । ४१९ १६३६ । गवाश्वप्रभृतीनि च । (२-४-११) एतानि कृतैकवचनानि सविशेषप्रक्रियं निपात्यन्ते । गवावं, गवाहिकं, कुब्जवामनं, पुत्रपौतम् इत्यादि । १६३७ । विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव- पूर्वापराधरोत्तराणाम् । (२-४-१२) बडवं, पूर्वापरम्, वृक्षमृगतृणधान्यव्यञ्जनपशुशकुनीनां द्वन्द्वः, अश्वबडवं, अधरोत्तरं इति निर्दिष्टाश्च वा एकवत्स्युः । यथा—

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३८&oldid=348035" इत्यस्माद् प्रतिप्राप्तम्