पृष्ठम्:Laghu paniniyam vol1.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६
लघुपाणिनीये
[स्वर संधि
-
अ, ए, ओ इति त्रय एवादेशाः । अतो यथासंख्यं कर्तुं नावकाशः ।
ततश्च 'स्थानेऽन्तरतमः' (२९) इति परिभाषितत्वात् कस्य कः सदृश-
तम इति परीक्षणीयमापतितम् । तत्र अवर्णस्य कण्ठः स्थानम् ; इवर्णस्य
तालु ; एकारस्य च कण्ठतालु इति स्थानसाम्यात् अ इ वर्णयोः
एकारो गुणः । एवम् अ - उ वर्णयोः ओकारः । ऋ ऌ वर्णयोः अकार
एव । तत्र ऋकारस्थाने आदिष्टः अकार: ‘उरण् रपर: ' (३०) इति
परिभाषया ‘अर्” इति रपरो भवति । लकारस्य तु तुल्यन्यायेन
‘अल्' इति लपरः । अथ उदाहरणम्-
-
उप + इन्द्रः = उपेन्द्रः ।
कुल + उचितम्= कुलोचितम् ।
महा + ऋषिः
महर्षिः ।
प्लुत + ऌकारः = प्लुतल्कारः ।
४९ । वृद्धिरेचि । (६-१-८८)
अवर्णादेचि परे वृद्धिरेकादेश: स्यात् । आ, ऐ, औ इति वृद्धि -
वर्णेषु पूर्ववदान्तरतम्यात् अ + ए, अ + ऐ इत्यनयोः ऐकार आदेशः ।
अ + ओ, अ + औ अनयोः औकारः । यथा-
-
=
तस्य + एव तस्यैव ।
महा + ओजः = महौजः ।
नृप + ऐश्वर्यम्
धन + औत्सुक्यम् = धनौत्सुक्यम् ।
=
-
अत्रेदमवधेयम् — उत्सर्गापवादन्यायमनुसृत्याचार्य: कार्याणि वि-
दधाति । न्यायोऽयमविमृश्यकारीव प्रथमं व्यापकस्य सामान्यस्य
विधेयं विधाय पश्चादुद्रुद्ध इव विशेषविधीनारभमाणो विषयसंकोचने-
नातिव्याप्तिं परिहरति । तस्य च लौकिकोऽयं दृष्टान्तः – ब्राह्मणान्
भोजयन् कोऽपि गृहस्वामी सूदानादिशति – (१) 'ब्राह्मणेभ्यो दधि
धीयताम्, (२) तक्रं कौण्डिन्याय' इति । अत्र महावाक्यपूर्वभागेण
ब्राह्मणत्वसाधारण्यात् प्राप्तं कौण्डिन्यस्यापि दधिदानम्, तक्रदानरूप-
विशेषविधिं कुर्वता उत्तरभागेण बाध्यते । एवं च पूर्ववाक्ये 'ब्राह्मणेभ्यः'
इति सामान्यं कौण्डिन्यभिन्नत्वविशेषणेन संकोचितविषयं पर्यवस्यति ।
-
=
= नृपैश्वर्यम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३&oldid=347409" इत्यस्माद् प्रतिप्राप्तम्