पृष्ठम्:Laghu paniniyam vol1.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्ययीभावः] मद्राणां समृद्धिः– सुमद्रम् । यवनानां व्यृद्धिः (क्षयः)—दुर्यवनम् । मक्षिकाणामभावो–निर्मक्षिकम् । हिमस्यात्ययः (अतिक्रमः ) – अतिहिमम् रूपस्य योग्यम् –अनुरूपम् । अर्थमर्थ प्रति–प्रत्यर्थम् । आकाङ्क्षाकाण्ड: । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । ज्येष्ठानुक्रमेण—अनुज्येष्ठम् । चक्रेण युगपत् — सचक्रम् । सदृशः संख्या — ससखि । ●- निद्रा सम्प्रति न युज्यते-अतिनिद्रम् । हरिशब्दः प्रकाशत इति - इतिहरि । - हरेः पश्चात् – अनुहरि । C - शक्तिमनतिक्रम्य – यथाशक्ति । हरेः सादृश्यं सहरि (सह = स) । = क्षत्राणां सम्पत्ति – सक्षत्रम् । तृणमप्यपरित्यज्य – सतृणमत्ति । तद्धितपर्यन्तं - सतद्धितमधीते । -- ४०५ १५६० | यावदवधारणे । (२-१-८) अवधारणमियत्तापरिच्छेदः । यावदमत्रं ब्राह्मणानामन्त्रयस्व - यावन्त्यमत्राणि तावतो ब्राह्मणानित्यर्थः ॥ अतिनिद्रम् इत्यत्र नपुंसकहस्व: । अव्ययीभावस्य नपुंसकत्वं वक्ष्यते । सचक्रमित्यादौ सहशब्दस्य 'स' इत्यादेशोऽपि वक्ष्यते । यथार्थत्वेनैव सादृश्यार्थेऽव्ययीभावे सिद्धे पृथग्ग्रहणं गुणभूतेऽपि सादृश्ये यथा स्या- दिति । सम्पत्तिरनुरूप आत्मभावः । समृद्धिस्तु ऋद्धेराधिक्यम् || १५५९ । यथाऽसादृश्ये । (२-१-७) सादृश्यभिन्नेऽर्थे एव यथाशब्दः समर्थेन सुबन्तेन समस्यते । यथावृद्धं ब्राह्मणानामन्त्रयस्व । यथा हरिस्तथा हरः इति सादृश्येऽर्थे समास- निषेधार्थमारम्भः ॥ TOM १५६१ । सुप् प्रतिना मात्रार्थे । (२-१-९) मात्रा बिन्दुः स्तोकमल्पमिति पर्यायाः । सुबिति वर्तमाने पुनः सुब्प्रहणमव्ययनिवृत्त्यर्थम् । सुपः प्रथमानिर्दिष्टत्वात्तस्य शाकस्य लेशः शाकप्रति ॥ पूर्वनिपातः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२४&oldid=348021" इत्यस्माद् प्रतिप्राप्तम्