पृष्ठम्:Laghu paniniyam vol1.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ लघुपाणिनीये १५५४ । सह सुपा । (२-१-४) सुबिति पूर्वतरसूत्रादनुवर्तते । सुबन्तं सुबन्तेन सह समस्यत इति समाससामान्यस्वरूपं कथ्यते । CROS [समासप्रक० १५५५ । अव्ययीभावः । (२-१-५) इत्यधिकृत्य । १५५६ । अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य-र्थाभावा-त्यया- संप्रति-शब्दप्रादुर्भावं-पश्चा-यथा-नुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति- साकल्या-न्तवचनेषु । (२-१-६) , विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं समर्थेन सुबन्तेन सह समस्यते अव्ययीभावश्च समासो भवति । 'अधि' इति सप्तम्यर्थकमव्ययं समर्थ- सुबन्तेन हरिशब्देन समस्यते । 'कृत्तद्धितसमासाच' इति समासस्य प्रातिपदिकत्वात् घटकपदस्थानां सुपां 'सुपो धातुप्रातिपदिकयोः' इति लोपः । ‘‘अधिहरि' इति समासो जातः । समस्तात् पुनः प्रातिपदिकत्वेन सुपामुत्पन्नानामव्ययीभावस्य अव्ययत्वात् 'अव्ययादाप्सुपः' इति लोपः । अधिहरि लक्ष्मीर्वसति । हरौ लक्ष्मीर्वसतीत्यर्थः । 'अव्ययादाप्सुपः ' इति लोपस्यापवादोऽस्ति । यथा— - १५५७ । नाव्ययीभावादतोऽम् त्वपञ्चम्याः । (२-४-८४) अदन्तादव्ययीभावात् परस्य सुपो न लुक् । किं तु 'अम्' इत्यादेशः । पञ्चम्यास्तु न लुक्, नाप्यमादेशः । १५५८ | तृतौयासप्तम्योर्बहुलम् । (२-४-८४) अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः । समीपाद्यर्थे- - ध्वव्ययीभाव उदाहियते- , वृक्षस्य समीपं उपवृक्षम्, उपवृक्षात उपवृक्षेण, उपवृक्षे । उपवृक्षादोषधि- गृहीता । उपवृक्षमुपवृक्षे वा तिष्ठति । उपवृक्षमुपवृक्षेण वा मृगो गतः । एवमन्येषा- मृगौ गतः। एवमन्येषा- मप्यम्भावः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२३&oldid=348020" इत्यस्माद् प्रतिप्राप्तम्