पृष्ठम्:Laghu paniniyam vol1.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० लघुपाणिनीये अथ मत्वर्थीयाः ॥ १४७३ । तदस्यास्त्यस्मिन्निति मतुप् । (५-२-९४) गावोऽस्य सन्तीति गोमान् देवदत्तः । धनुरस्यास्तीति धनुष्मान् । हविरस्या- मस्तीति हविष्मती वेदिः, चरुमती । मतुपो मकारस्य क्वचित् वादेशोऽसिद्धकाण्डे विधीयते । यथा— १४७४ । मादुपधायाश्च मतोर्वोऽयवादिभ्यः । (८-२-९) म् च, अश्च मम् इति समाहारद्वन्द्वः । अवर्णमकाराभ्यामित्यर्थः । [तद्धितमत्वर्थीयाः उपधाभूताभ्याम् अन्तभूताभ्यां वा अवर्णमकाराभ्यां परस्य मतुपो वादेशः । न तु यवादिभ्यः परस्य । आदे: परस्य' इति मकारस्यैव ८ वादेशः । यथा— मान्तस्य- किंवान्, शंवान् मोपधस्य-लक्ष्मीवान्, चमूवान्, डाडिमीवान् अवर्णान्तस्य - धनवान्, भार्यावान् 1 अवर्णोपधस्य-पयखान्, भावान् । १४७५ | झयः । (८-२-१०) झयन्तान्मतुपो वकारादेशः । यथा–विद्युत्वान् मेघः । दृषद्वान् देशः । १४७६ | संज्ञायाम् । (८-२-११) अहीवती, कपीवती इत्यादि । १४७७ । उदन्वानुदधौ च । (८-२-१३) चान्मुनौ । १४७८ । राजन्वान् सौराज्ये । (८-२-१४) अन्यत्र राजवान् । उक्ता वादेशविधयः । अथ प्रकृतेः प्रत्ययविधिरेवानुबध्यते – १४७९ । रसादिभ्यश्च । (५-२-९५) रसादिभ्यश्च मतुप् अपवादबाधनार्थं विधीयते ।। १४८० । लोमादिपामादिपिच्छादिभ्यः शनेलच: । (५-२-१००) यथासंख्यं प्रत्ययाः वा स्युः । यथा - लोमशः – लोमवान् । पामन: - पामवान् | पिच्छिलः – पिच्छावान् । - १४८१ । अत इनिठनौ । (५-२-२२६F

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०९&oldid=348006" इत्यस्माद् प्रतिप्राप्तम्