पृष्ठम्:Laghu paniniyam vol1.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितपूरण्यः] निरुक्तकाण्डः । १४६४ । नान्तादसंख्यादेर्मद् । (५-२-४९) डट्प्रत्ययस्य मडागमः । पञ्चमः, सप्तम इत्यादि । १४६५ । षद्कतिकतिपयचतुरां थुक् । (५-२-५१) षडादीनां डटि परे थुगागम: । कतिपयशब्दस्य संख्यात्वाभावे- ऽपि वचनसामर्थ्याड्डट् । यथा— षष्ठः, कतिथः, कतिपयथः, चतुर्थः । - ॥ * ॥ चतुरश्छयतावाद्यक्षरलोपश्च । तुर्यः, तुरीयः । १४६६ । बहुपूगगणसङ्घस्य तिथुक् । (५-२-५२) बहूनां पूरणो बहुतिथ इत्यादि । १४६७ । वतोरिथुक् । (५-२-५३) यावतिथः, तावतिथः, एतावतिथः । ३८९ १४६८ | द्वेस्तीयः । (५-२-५४) – द्वितीयः । १४६९ । त्रेः संप्रसारणं च । (५-२-५५)– तृतीयः । १४७० । विंशत्यादिभ्यस्तम डन्यतरस्याम् । (५-२-५६) डटस्तमडागमः । ‘ति विंशतेर्डेिति' इति भसंज्ञायां तिकारलोपः । विंशः, विंशतितमः; त्रिंशः, त्रिंशत्तमः । 1 १४७१ । नित्यं शतादिमासार्धमाससंवत्सराच्च । (५-२-५७) शतादुत्तरेभ्यश्च नित्यं डटस्तमडागमः । मासादिभ्यश्चैवं विधान- सामर्थ्याइट् तस्य च तमद् | – शततमः, सहस्रतमः, लक्षतमः इत्यादि ॥ १४७२ । षष्ट्यादेश्वासंख्यादेः । (५-२-५८) केवलेभ्यः षष्टिसप्तत्यशीतिनवतिशब्देभ्यश्च नित्यं तमद् । षष्टितमः, सप्ततितमः, अशीतितमः, नवतितमः । संख्यादेस्तु एकषष्टः, द्वासप्तत इत्याद्यपि । इति पूरण्यः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०८&oldid=348005" इत्यस्माद् प्रतिप्राप्तम्