पृष्ठम्:Laghu paniniyam vol1.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ]
शिक्षाकाण्डः ।
२३
वाक्यस्थपदानामुत्तरवाक्ये उपस्थितिः अनुवृत्तिरित्युच्यते । अनुवृत्ति-
मात्रफलकान्यपि कदाचित् सूत्राणि क्रियन्ते – यान्यधिकार इति
व्यपदिष्टानि । अनिष्टस्य पदस्यानुवृत्तिर्मा भूदिति स्वरितस्वरेणोच्चार्यमाणं
पदं सूत्रान्तरेष्वनुवर्तनीयम् इत्याचार्य: संकेतयति । किं तु संप्रदायोऽयं
कालक्रमाल्लुप्तः । संप्रति यस्य पदखानुवृत्तिरिष्टा तस्य स्वरितत्वं प्रति-
ज्ञायत इत्येव ।।
इति परिभाषाप्रकरणम् ।
अथ संधिप्रकरणम् ॥
प्रकृतिप्रत्यययोः पदयोर्वा मेलने पूर्वान्त्यवर्णस्य परादिवर्णस्य
उभयोर्वा ये विकारा उत्पद्यन्ते, तानि संधिकार्याणि । विकारश्च आदेशः,
आगम:, द्वित्वम्, लोप इत्येषामन्यतम एव । संधिस्तावत् त्रिविधः
संभवति – पदमध्यमाने कर्तव्यः, पदान्तमात्रे कर्तव्यः, उभयत्रापि
कर्तव्य इति । तत्र पदमध्यमात्रे कर्तव्यः संधिर्विरल एव; प्रकृति-
प्रत्ययविवेचनं चापेक्षते । संधिप्रकरणेऽस्मिन् उभयसंधिः पदान्तसंधि-
चोच्यते । तत्रं च यत्न स्वरो विकार्यः सः स्वरसंधिः प्रथमं कथ्यते--
स्वरसंधिः ।
४३ । इको यणचि । (६-१-७७)
'इकः' इति षष्ठयन्तम् ; अतः (२८) इक: स्थाने इत्यर्थः ।
‘अचि' इति सप्तम्यन्तम् ; अतः (३५) अचि परे इत्यर्थः । सूत्रघटकं
पदत्रयमपि प्रत्याहाररूपम् ; अतस्तत्तद्वर्णा ग्राह्याः । एवं च स्वरे-
ब्वेकस्मिन् परे इ, उ, ऋ, ऌ एषां वर्णानां स्थाने, य्, व्ं, र्, ल् एते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०&oldid=347406" इत्यस्माद् प्रतिप्राप्तम्