पृष्ठम्:Laghu paniniyam vol1.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ३६१ योगे कर्तृकर्मणोः षष्ठी । ‘न लोक....' इत्यनन्तरसूत्रेण प्राप्तं निषेधं बाधितुमिदम् । यथा— सतां मतः, पूजितः, विदितो वा–कर्तरि षष्ठी। मुकुन्दस्यासितमिदमिदं यातं रमापतेः १२९७ । न लोकाव्ययनिष्ठाखलर्थतृनाम् । लः, उ, उकः, अव्ययं, निष्ठा, खलर्थाः, आगामुकं वाराणसीं रक्ष माम् ओदनं भोक्तुं, ओदनं भुक्त्वा योगे कर्तृकर्मणोः षष्ठी म स्यात् । लकारः कृत् = लकारादेशः कृत = शतृशानचौ, कसुकानचौ च । यथा - - ओदनं पचन् पचमानो वा गृहमासेदिवान् कन्यामलङ्करिष्णुः, ओदनं बुभुक्षुः ओदनं भुक्तवान्, देवदत्तेन कृतम् ईषत्करो घटः कुलालेन कर्ता कटान्, वदिता जनापवादान् - —— - " - (२-३-६९) तृन्– एषां कृतां लादेशौ शतृशानचौ । लादेशः क्वसुः । उः। उकः । अव्ययम् । निष्ठा । खलर्थः । 912 तृन् (ताच्छीलिकः) । १२९८ । अकेनोर्भविष्यदाधमर्ण्ययोः । (२-३-७०) कर्तृकर्मणोः षष्ठी न । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति (ण्वुल्) । 'आवश्यकाधमर्ण्ययोर्णिनिः' इत्यकेनौ विहितौ । यथा— सतां पालकोऽवतरति विष्णुः । व्रजं गामी । शतं दायी । १२९९ । कृत्यानां कर्तरि वा । (२-३-७१) ‘कर्तृकर्मणोः कृति' इति नित्यं प्राप्ता षष्ठी कर्तरि विकल्प्यते । यथा - मया मम वा सेव्यो हरिः । कर्मणि तु– गेयो माणवकः सानाम् इत्येव । -

  • ॥ उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः ॥ यथा—

नेतव्या व्रजं गावो गोपेन । 'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायात् " कर्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८०&oldid=347975" इत्यस्माद् प्रतिप्राप्तम्