पृष्ठम्:Laghu paniniyam vol1.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० लघुपाणिनीये [विभक्त्यर्थप्र० ‘एकस्य सकृच्च' एते कृत्वोऽर्थाः । एषां प्रयोगे कालरूपेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी । यथा - दिनस्य पञ्चकृत्वो भुङ्क्ते । वारस्य त्रिरभ्यनक्ति । वत्सरस्य सकृद्यजति । मासस्य द्विरायुष्कर्म करोति । अथ द्वितीयादीनामपवादः षष्ठीविधिः- - १२९३ । कर्तृकर्मणोः कृति । (२-३-६५) कृदन्तप्रयोगे कर्तृकर्मणोः षष्ठी, तृतीयाद्वितीययोरपवादः । यथा नृपस्यागमनम् । ब्रह्मणः सृष्टिः– कर्तरि । उत्सवस्य दर्शनं, जगतः सृष्टिः, जगतः स्रष्टा – कर्मणि । - प्रत्यु० – ('कर्तृकर्मणोः' किम् ? ) शस्त्रेण भेदनं, पुरे वासः । - (‘कृति' किम् ? ) कृतपूर्वी कटम् – अत्र इनिप्रत्ययस्तद्धितः । ॥ * ॥ गुणकर्मणि वेष्यते ॥ द्विकर्मकेष्वप्रधाने कर्मणि वा षष्ठी । यथा- मोक्षस्य याचको विष्णोः विष्णुं वा । - १२९४ । उभयप्राप्तौ कर्माणि । (२-३-६६) उभयोः प्राप्तिर्यस्मिन्निति बहुव्रीहिः । कर्तुः कर्मणश्च यत्र प्रसक्तिः तस्य कृदन्तस्य योगे कर्मण्येव षष्ठीति नियमः । यथा— आश्चर्यो गवां दोहोऽगोपेन । विचित्रं समुद्रस्य पानं कुम्भोद्भवेन ।

  • ॥ अककारयोः स्त्रीप्रत्यययोर्नेति वक्तव्यम् ॥ यथा-

रामस्य भेदिका धनुषः, अकवेः काव्यस्य चिकीर्षोपहासाय । ॥ ॥ * ॥ शेषे विभाषा ॥ यथा- - शब्दानामानुशासनमाचार्येणाचार्यस्य वा । १२९५ । क्तस्य च वर्तमाने । (२-३-६७) १२९६ । अधिकरणवाचिनश्च । (२-३-६८) 'नीतः क्तः' 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमानार्थे विहितस्य, ‘क्तोऽधिकरणे च.... इति अधिकरणार्थे विहितस्य च क्तप्रत्ययस्य ,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७९&oldid=347974" इत्यस्माद् प्रतिप्राप्तम्