पृष्ठम्:Laghu paniniyam vol1.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ॥ * ॥ ल्यब्लोपे कर्मण्यधिकरणे चोपसंख्यानम् ॥ उचितस्य ल्यबन्तधातोरर्थसिद्धय कर्मण्यधिकरणे च पञ्चमी । =

यथा — प्रासादात् प्रेक्षते – प्रासादमारुह्येत्यर्थः । आसनात् प्रक्षते—आसने उपविश्य । ॥ ॥ यतश्चाध्वकालनिमानं तत्र पञ्चमी, तयुक्तादध्वनः प्रथमासप्तम्यौ, कालात् सप्तमी च वक्तव्या ॥ यथा- वनात् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे । १२७१ । अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते (२-३-२९) एषां योगे पञ्चमी । अन्य इत्यर्थग्रहणम्, इतरस्य पृथग्ग्रहणं तु प्रपञ्चार्थम्, ‘आरात्' 'ऋते' इत्येतौ निपातौ । दिशि दृष्टः शब्दो दिक्छब्दः,—पूर्वपश्चिमदक्षिणोत्तराः । अचूत्तरपदाः प्राक्प्रत्यगुद्गवा- च:, आजाही तद्धितप्रत्ययौ । यथा- कृष्णादन्यं परमितरं वा न भजे । प्रामादारान्नदी । - उदक् पर्वतान्नदी । दक्षिणा प्रामात् मम उत्तराहि" ऋते मोक्षान्न सुखम् । पूर्व उत्तरो वा प्रामात् पर्वतः । दिक्छब्दस्य कालवाचिनोऽपि योगे पञ्चमीष्यते । चैत्रात् पूर्वः फाल्गुनः । श्वशुर स्य ३५३ १२७३ | एनपा द्वितीया । (२-३-३१) एनबन्तयोगे तु द्वितीयैव । यथा- ‘दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते' । गृहम् । स १२७२ । षष्ठ्यतसर्थप्रत्ययेन । (२-३-३०) 'दक्षिणोत्तराभ्यामतसुच्' इति तद्धिते अतसुच् विधीयते । स च “दिग्देशकालेष्वस्तातिः" इति प्रकरणे वर्तते । अस्तातिः, अतसुच्, सुच् एते अतसर्था दिक्छब्देभ्यश्च विहिताः । तेषां योगे पञ्चम्यप- वादः षष्ठी । यथा— प्रामस्य दक्षिणतः, पुरः पुरस्ताद्वा पर्वतः - 1 23

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७२&oldid=347967" इत्यस्माद् प्रतिप्राप्तम्