पृष्ठम्:Laghu paniniyam vol1.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ लघुपाणिनीये दण्डेन घटः । धनेन कुलम् | अध्ययनेन वसति । आशया धावति । कन्यया शोकः । [विभक्त्यर्थप्र ० विद्यया यशः । ॥ * ॥ वारणार्थकालंयोगे पूर्वावरोनार्थकादियोगे च तृतीयेध्यते ॥ अलं भयेन–भयं मास्त्वित्यर्थः । मासेन पूर्वः, मासेनावरः, भयेन हीन:, पञ्चभिरूनः, गुडैर्मिश्रः इत्यादि । , 11 ॥ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया ॥ यथा— दास्या धनं संयच्छते कामुकः । शिष्टव्यवहारे तु—भार्यायै धनं यच्छति । १२६६ | अकर्तर्दृणे पञ्चमी । (२-३-२४) कर्तृभिन्नादृणवाचिनो हेतुभूतात् पञ्चमी तृतीयापवादः । यथा- शतात् बद्धः-- शतमितर्णहेतुको बन्धः । चं यथा- १२६७ । विभाषा गुणेऽस्त्रियाम् । (२-३-१५) गुणरूपे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी स्यात् । यथा— जाड्यात्, जाड्येन वा बद्धः । पाण्डित्यात्, पाण्डित्येन वा मुक्तः । व्यवस्थितविभाषाश्रयणादगुणे स्त्रियामपि वा पञ्चमी । यथा-- पर्वतो वह्निमान् धूमात् । नास्ति घटोऽनुपलब्धेः। -- १२६८ । षष्ठी हेतुप्रयोगे । (२-३-२६) हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी खात् । यथा— अन्नस्य हेतोर्वसति । अध्ययनस्य हेतोर्वसति । १२६९ । सर्वनाम्नस्तृतीया च । (२-३-२७) सर्वनाम्ना विशेषितस्य हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी तृतीया -कस्य हेतोः, केन हेतुना वा वसति । - ॥ * ॥ निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् ॥ यथा - किं निमित्तम्, कस्मै निमित्ताय । कस्मिन् निमित्त वा वसति । पञ्चमी । (२-३-२८) १२७० । अपादाने ग्रामादागच्छतीत्याद्युदाहरणं दत्तमेव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७१&oldid=347966" इत्यस्माद् प्रतिप्राप्तम्