पृष्ठम्:Laghu paniniyam vol1.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ लघुपाणिनीये व्याख्यातं सूत्रद्वयमत्रोदाहियते- विधिः शास्त्रचोदना— अहरहः सन्ध्यामुपासीत । उपस्तां वा । निमन्त्रणमावश्यके कार्ये नियोगः - श्राद्धं भुञ्जीत भवान्, भुतां वा । आमन्त्रणं कामचारानुज्ञा— इहासीत भवान्, आस्तां वा । अधीष्टः सत्कारपूर्वो व्यापारः - मम पुत्रं भवानुपनयेत्, उपनयतु वा । संप्रश्नः संप्रधारणम् – किंनु भो व्याकरणमधीयीय, अध्ययै वा । प्रार्थना याच्या । — पुत्रमहं लभेय, लभै वा । विध्यादयः प्रवर्तनाभेदा इत्येव । [लकारार्थप्रकरणम् ११९७ । प्रैषातिसर्गप्राप्तकालेषु कृत्याच | (३-३-१६३) एषु धातोः कृत्यप्रत्यया लोट् च । यथा— विधिभेदः प्रैषः—त्वया कटः कार्यः कर्तव्यः, क्रियतां वा । कामचाराभ्यनुज्ञातिसर्ग यष्ठव्यं त्वया, इज्यतां वा । अवसरप्राप्तिबोधनं प्राप्तकालः– अथ भोक्तव्यं त्वया, भुज्यतां वा । 'यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः—अतिसर्गः । वयं हनाम द्विषतः सर्वः स्वार्थ समीहते '- -प्राप्तकालः । १९९८ । कालसमयवेलासु तुमुन् । (३-३-१६७) प्रैषाद्यर्थे द्योत्ये कालार्थकेषूपपदेषु तुमुन् । यथा— काल: समयो वेलानेहा वा भोक्तुम् । ११९९ । लिङयदि । (३-३-१६८) कालादिष्वित्येव । कालो यद्भुञ्जीत भवान् । १२०० । अर्हे कृत्यतृचच । (३-३-१६९) योग्यार्थे कृत्या:, तृच्, लिङ् च । यथा— भवता कन्या वोढव्या । भवान् कन्याया वोढा । भवान् कन्यां वहेत् । १२०१ । आवश्यकाधमर्ण्ययोर्णिनिः । (३-३-१७०) अवश्यङ्कारी, शतं दायी । १२०२ । कृत्याश्च । (३-३-१७१) अवश्यकार्यम् । अवश्यकृत्यम् । शतं देयम् । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५३&oldid=347948" इत्यस्माद् प्रतिप्राप्तम्