पृष्ठम्:Laghu paniniyam vol1.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लकारार्थप्रकरणम् ] परिनिष्ठाकाण्डः । ३३३ तस्मिन्नर्थे अलंशब्दप्रयोगं विनैव द्योत्ये धातोः कालत्रये लिङ् । यथा- अलमयं शिरसा गिरिं भेत्तुं इत्यर्थे अपि गिरिं शिरसा भिन्द्यात् । अपि द्रोणमनं भुञ्जीत । ११९१ । विभाषा धातौ सम्भावनवचनेऽयदि । (३-३-१५५) सम्भावनावाचिनि धातावुपपदे पूर्वोक्तं वा । न तु यच्छन्दप्रयोगे । सम्भावयामि भुञ्जीत भोक्ष्यते वा भवान् । यत्प्रयोगे तु पूर्वेण नित्यं लिङ्- सम्भावयामि यद् भुञ्जीत भवान् । ११९२ । हेतुहेतुमतोर्लिङ् । (३-३-१५६) कार्यकारणभावे द्योत्ये धातोर्वा लिङ् । क्रियातिपत्तौ लङ् । यथा – कृष्णं नमैच्चेत् सुखं यायात् । नमति चेत् सुखं याति । नंस्यति चेत् सुखं यास्यति । ११९३ । इच्छार्थेषु लिङ्लोटौ । (३-३-१५७) ( कामप्रवेदने इति वाच्यम्) इच्छार्थेषु धातुषूपपदेषु सर्वलकार।पवादौ लिङ्लोटौ । यथा - - इच्छामि भुञ्जीत भवान् । भुङ्गां वा । ११९४ । समानकर्तृकेषु तुमुन् । (३-३-१५८) - इच्छार्थकेषु धातुषु समानकर्तृकेषु उपपदेषु तुमुन् । यथा - इच्छामि भोक्तुम् । भिन्नकर्तृके तु – इच्छामि भुञ्जीत भवान्, भुङ्गां वा इति पूर्वसूत्रेण लिङ्लोटावेव | - ११९५ । लिङ् च । (३-३-१५९) तुमुन्विषये लिङ् च । यथा — इच्छामि भुञ्जीयेति । ११९६ । इच्छार्थेभ्यो विभाषा वर्तमाने । (३-३-१६०) पक्षे यथाप्राप्तो लट् । इच्छति, इच्छेत् । वाञ्छति, वाञ्छेत् । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्न प्रार्थनेषु लिङ् । (३-३-१६१) लोट् च । (३-३-१६२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५२&oldid=347947" इत्यस्माद् प्रतिप्राप्तम्