पृष्ठम्:Laghu paniniyam vol1.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लकारार्थप्रकरणम्] भविष्यत्कालद्योतकत्व क्ष्यत' इत्येव ।। परिनिष्ठाकाण्ड: । ३२९ एवानयोर्निपातत्वम् । तेन 'यावल्लभ्यते तावद्भो- ११६८ । विभाषा कदाकर्त्योः । (३-३-५) अनयोर्योगे भविष्यति वा लट् । यथा— कदा भुङ्क्ते । कर्हि भुङ्क्ते — भोक्ष्यते वा । १९६९ । किंवृत्ते लिप्सायाम् । (३-३-६) किंशब्दनिष्पन्नः किंवृत्त: । किंकतरकतमशब्दाः । लिप्सायां गम्यायां किंवृत्ते उपपदे भविष्यति लट् । यथा— कः, कतरः, कतमो वा भिक्षां ददाति, दास्यति वा । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । (३-३-१०) (व्याख्यातम्) १९७० । भाववचनाच। (३-३-११) तुमुना बाधो मा भूदिति भावार्थका घञादयश्च विधीयन्ते ।। ११७१ । अण् कर्मणि च । (३-३-१२) भविष्यति काले कर्मण्युपपदे अण् च || लट् च्छेषे च । (३-३-१३) (व्याख्यातम् ) उक्तसूत्रचतुष्टयस्य युगपदुदाहरणम् - अन्नं भोक्तुम्, अन्नं भोजको, अन्नस्य भोजनाय, अन्नभोजः, अन्नं भोक्ष्ये इति वा व्रजति देवदत्तः । ११७२ । वर्तमानसामीप्ये वर्तमानवद्वा । (३-३-१३१) वर्तमानसन्निहिते भूते भविष्यति च वर्तमाने इव प्रत्यया वा स्युः । यथा— कदा त्वमागतोऽसि ? – अयमागच्छामि –भूते । कदा ग्रामं गमिष्यसि ? पक्षे उभयत्रापि लट् | – एष गच्छामि – भविष्यति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४८&oldid=347943" इत्यस्माद् प्रतिप्राप्तम्