पृष्ठम्:Laghu paniniyam vol1.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ लघुपाणिनीये ११६२ । नपुंसके भावे क्तः । (३-३-११४) ११६३ । ल्युट् च । (३-३-११५) सिद्धावस्थापन्ने भावे क्तो ल्युट् च स्यात्, क्कीबता चानयोः b यथा— जल्पितं, जल्पनम् । विलोकितम्, विलोकनम् । चेष्टितम्, चेष्टनम् । - ११६४ । करणाधिकरणयोश्च । (३-३-११७) = ल्युडेवानुवर्तते योगविभागात् । यथा— इध्मत्रश्चनः कुठारः। गोदोहनी स्थाली। ११६५ | पुंसि संज्ञायां घः प्रायेण । (३-१-११८) करणाधिकरणयोरित्येव । यथा— दन्तच्छदः । उरश्छदः । आलयः ॥ SE7E72 [लकारार्थप्रकरणम् लकारार्थप्रकरणम् ॥ इह सुबन्ततिङन्तप्रकरणयोः सुपां तिङां च प्रक्रिया एव कथिताः । अर्थविचारो न कृतः । स इदानीं प्राप्तावसर आरभ्यते । तत्र प्रथमं तिङामर्थविचारः, तेषां धात्वधिकारान्तर्गतत्वात् धात्वधिकारख च प्रकृतत्वात् । तिङो लकारा आख्यातानीत्यनर्थान्तरम् । सन्निष्ठाकृत्या- दयश्चाख्यातानामादेशा: स्थानीया वा । अत आख्यातानामाख्यातकानां चार्थविशेषा एकस्मिन्नेव प्रकरणे मिलिताः प्रदर्श्यन्ते । 'कर्तरि कृत् इत्यादिः कृतां सामान्यतोऽर्थव्यवस्था प्रतिपादितैव ॥ १ १ ११६६ । भविष्यति गम्यादयः । (३-३-३) गम्यादयो भविष्यति काले स्युः । यथा— प्रामं गमी । प्रस्थायी । प्रतियोधी । भावी इत्यादि । PEREM ११६७ । यावत्पुरानिपातयोर्लट् । (३-३-४) निपातयोर्यावत्पुराशब्दयोरुपपदयोर्भविष्यति लट् । यथा— यावत् भुङ्क्ते । पुरा भुङ्क्ते – भोक्ष्यत इत्यर्थः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४७&oldid=347942" इत्यस्माद् प्रतिप्राप्तम्