पृष्ठम्:Laghu paniniyam vol1.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ कॄ – करः । गृ-- - लघुपाणिनीये ११४८ । ऋदोरप् । (३-३-५७) ऋदन्तेभ्य उवर्णान्तेभ्यश्च अप् | स्वरे एव भेदः । यथा— । - गरः । शू – शरः । क्षु – क्षवः । लू – लवः । पू–पवः । ११४९ । द्वितः क्त्रिः । (३-३-८८) 'क्त्रेर्मन्नित्यम्' इति मध्प्रत्ययान्त एवायं सर्वदा । यथा— ८ डु कृञ् करणे — कृत्रिमः, - मा, मम् | डु पच-पक्रिमम् । - ११५० । द्वितोऽथुच् । (३-३-८९) टु णदि समृद्धौ – आनन्दथुः । टु ओश्वि – श्वयथुः । ११५१ | उपसर्गे घो: कि । (३-३-९२) विधिः । व्याधिः। अन्तर्धिः, सन्धिः, प्रधिः, निधिः । [भावकृत्प्र० ११५२ । स्त्रियां क्तिन् । (३-३-९४) भावे अकर्तरि च कारके धातो: क्तिन् । तदन्तश्च स्त्रियाम् । यथा कृ – कृतिः । मन–मतिः । सृज–सृष्टिः । वच – उक्तिः । ॥ * ॥ ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः ॥ इति वार्तिकात् तकारस्य नत्वं — कृ – कीर्णिः । लू-लूनिः । ॥ * ॥ ग्ला-म्ला-ज्या-हा-भ्यो निः ॥ ग्लानि:, म्लानिः, ज्यानि, हानिः । ॥ ॐ ॥ सम्पदादिभ्यः क्विप् ॥ सम्पद्, विपद्, रुच्, भास् इत्यादि । वासरूपविधिना—सम्पत्तिः । विपात्तरित्याद्यपि । ११५३ । अ प्रत्ययात् । (३-३-१०२) प्रत्ययान्तेभ्य: (सनाद्यन्तेभ्यः) धातुभ्यः अप्रत्ययः स्त्रियाम् । यथा- चिकीर्षा, पुत्रकाम्या, अटाट्या, कण्डूया । ११५४ । गुरोध हलः । (३-३-१०३) हलन्तो यो धातुर्गुरुमान् ततः स्त्रियामप्रत्ययः । यथा- - ईद्दा, ऊद्दा, कुण्डा । वासरूपविधेः 'अस्त्रियाम्' इति निषेधात् क्तिनोऽपवादोऽयम् ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४५&oldid=347939" इत्यस्माद् प्रतिप्राप्तम्