पृष्ठम्:Laghu paniniyam vol1.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावकृत्प्र ०] परिनिष्ठाकाण्डः । ३२५ । पन्ना क्रिया द्रव्यवत् प्रकाशत इति द्वित्वादियोगे द्विवचनबहुवचने अपि सम्भवतः । देवदत्तश्चेत्रिवारं सम्यक् पचति तदा देवदत्तस्य पाका: समीचीनाः इति प्रयोगस्यावसरः । भावार्थंककृत्प्रत्ययाः कर्तृभिन्नेषु का- रकेष्वपि भवन्ति, तदा ते द्रव्यवाचकाञ्च स्युः | संज्ञाशब्देनात्र द्रव्य- नामैवोच्यते, न तु यदृच्छाशब्दः । घञित्यनुवृत्त्या सूत्रद्वयेन भावकर्तृ- भिन्नकारकयोर्घञ्प्रत्ययो विधीयते च । घित्त्वाच्च जो: कुत्त्वम् | ञित्त्वा- दजन्तादुपधयोर्वृद्धिश्च । यथा- - पच–पाकः—सिद्धा पचनक्रियेत्यर्थः । भावे घञ् पुल्लिङ्गनियतः । एवं भू- भावः । वद – वादः । दा– दायः । प्रान - प्राणः । आहरन्त्यस्माद्रसमित्याहारः । व्यस्यतेऽनेन वृत्तमिति व्यासः । प्रकाश्यतेऽनेनेति प्रकाशः । आरमन्त्यस्मिन्नित्यारामः । ११४४ । परिमाणाख्यायां सर्वेभ्यः । (३-३-२०) अजपोर्वक्ष्यमाणयोः पुरस्तादपवादो घञ् । यथा— तण्डुलनिचायः, शूर्पनिष्पावः । ११४५ । कर्मव्यतीहारे णच् स्त्रियाम् । (३-३-४३) कर्मविनिमये गम्ये धातोर्णच्, स्त्रीलिङ्गश्चायं प्रत्यय: ‘णच: स्त्रियामञ्' इति तद्धितविधानादञन्त एवायं प्रयुज्यते । अत एव च ङीप् । यथा- व्यावक्रोशी, व्यावहासी, व्यात्युक्षी | अन्योन्यस्य क्रोश इत्यादिरर्थः । - ११४६ । अभिविधौ भाव इनुण् । (३-३-४४) अभिविधिः क्रियागुणाभ्यां कार्येन सम्बन्ध: । 'अणिनुण: ' इति सूत्रेण अणन्त एव इनुणन्तः प्रयोक्तव्यः । यथा— सं + रु—सांराविणं वर्तते । संभूय कृतो रवँ इत्यर्थः । । ११४७ । एरच् । (३-३-५६) इवर्णान्ताद्धातोरच् भावे अकर्तरि कारके च । घञोऽपवादः । यथा – चि–चयः । जि – जयः । इ–अयः । नी– नयः । भी— भयम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४४&oldid=347938" इत्यस्माद् प्रतिप्राप्तम्