पृष्ठम्:Laghu paniniyam vol1.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । एषु प्रभेदेषु साध्यविशेष्यक्रियावाचकस्य पदस्य 'आख्यातम् इति पूर्वैः संज्ञा कृता । साध्यविशेषणक्रियावाचकस्य 'आख्यातकम्' इति संज्ञा क्रियते । आख्यातवर्जमन्ये कृत्संज्ञाः । यस्यां वाक्यार्थ- विश्रान्तिः, सैव क्रिया स्वतन्त्रविशेष्यत्वेन प्रतिभायादिति साध्यविशेष्य- क्रियावाचिनो लकाराः सर्वेऽपि । आख्यातमिवाख्यातकम् इति व्युत्पत्त्या नामक्रियाविशेषणीभूतमाख्यातमेवाख्यातकम् । तथा च एकैकस्याप्या- ख्यातस्य आख्यातकरूपमस्ति । यथा- - कृत्प्रकरणम् ] आख्यातम् । अश्वो धावति अश्व आरुह्यते अश्वो धाविष्यति अश्व आरोक्ष्यते अश्व आससाद अश्वोऽधावीत् अश्वेन रथोऽभजि अश्व आरुह्येत सुखं तीर्यतां नदी आख्यातकम् । धावन्नश्वः आरुह्यमाणोऽश्वः धाविष्यन्नश्वः आरोक्ष्यमाणोऽश्वः आसेदिवानश्वः धावितवानश्वः अश्वेन भग्नो रथः कर्तरि २९५ कर्मणि लट । कर्मणि कर्तरि कर्मणि कर्तरि लिट । कर्तरि } , लृट् । , आरोढव्योऽश्वः सुतरा नदी - एवं नवसु लकारेषु षण्णामाख्यातकरूपाणि सन्ति । लङ् लुट्- लङां त्रयाणां परं न सन्ति । लिट: कर्मणि, लिङ्लोटो: कर्तरि चाख्या- तकानि न सन्ति । भावे तु विरलमेवाख्यातकरूपम् । एषु लट् - लिट्- लटामाख्यातकानि तेषां लकाराणामादेशा एव । अन्येषां लुङ् - लिङ - लोटां तु आख्यातकानि तेषां लकाराणां स्थानमात्रं वहन्ति || - लिङ् | कर्मणि लोट् । उक्तो विभागो नामविशेषणानामाख्यातकानाम् | क्रियाविशेष- णानां तु लुङ्स्थानीयं लद्स्थानीयमिति द्विविध एव भेदः । यथा— -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१४&oldid=347787" इत्यस्माद् प्रतिप्राप्तम्