पृष्ठम्:Laghu paniniyam vol1.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [कृत्प्रकरणम् स्मृतिमेवोत्थापयति । उक्तदृष्टान्तानुरोधेन क्रियाया द्वे अवस्थे भवतः — धावति, धावन्तं, धावित्वा, धावितुं इतिवत् निष्पाद्यमानताप्रतीतिका- रिणी एका । 'धावनं' 'धावितुः' इतिवत् सिद्धवस्तुप्रतीतिकारिणी अन्या । अनयो: प्रथमा साध्या, द्वितीया सिद्धा चेत्युच्यते । उक्तं च हरिणा- २९४ “यावत् सिद्धमसिद्धं वा साध्यत्वेन प्रतीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ 39 = = इति । सिद्धं = निष्पन्नं = भूतकालसंयोगि । असिद्धम् = अनिष्पन्नं = भाविकालसंयोगि । साध्यं = निष्पाद्यमानावस्थम् । भूतं वा भविष्यद्वा भवतु यावत् किश्चित् कर्म निष्पाद्यमानावस्थायां ज्ञानविषयीभवति, तावत्पर्यन्तं तत् (कर्म) क्रियाव्यपदेशमर्हति । तत्र च हेतु: 'आश्रित- क्रमरूपत्वात्' इति । तावत्पर्यन्तमेव हि जले वीचीतरङ्गाणामिव पुर:- पुरः प्रसरतामवान्तरव्यापाराणां परम्परात्मकतया तस्य (कर्मण:) r:) प्रतीतिर्भवति ॥ एवं साध्या सिद्धा चेति क्रियाया भेदद्वये साध्यायाः द्वौ प्रभेदौ b 'धावन्तम्' इतिवत् नामपदानां, 'धावित्वा,' 'धावितुम्' इतिवत् क्रि यान्तरस्य वा विशेषणमेक: । 'धावति' इतिवत् विशेष्यमन्य इति । सिद्धाया अपि द्वौ प्रभेदौ । 'धावनम्' इतिवत् भावात्मना प्रतीति- रेकख । 'धावितुः' इतिवत् कारकमुखेन प्रतीतिरन्यस्येति । एतावता लब्धः क्रियाविभाग: पट्टिकया संगृह्यते- क्रिया साध्या सिद्धा { विशेष्यम् = आख्यातम् विशेषणम् = आख्यातकम् - भावरूपा कारकाङ्गरूपा नामविशेषणम् क्रियाविशेषणम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१३&oldid=347786" इत्यस्माद् प्रतिप्राप्तम्