पृष्ठम्:Laghu paniniyam vol1.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ लघुपाणिनीये ९३३ । अकर्मकाच्च । (१-३-४५) सर्पिषो जानीते—सर्पिषा उपायेन प्रवर्तत इत्यर्थः । [पदव्यवस्था ९३४ । संप्रतिभ्यामनाध्याने । (१-३-४६) आध्यानमुत्कण्ठापूर्वकं स्मरणम् । शतं सञ्जानीते – अवेक्षत इत्यर्थः । शतं प्रतिजानीते - अङ्गीकरोतीत्यर्थः । आध्याने तु - मातरं संजानाति–उत्कण्ठया स्मरतीत्यर्थः । ९३५ । भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । (१-३-४७) १. वदते – शास्त्रे -- भासमानः प्रवक्तीत्यर्थः । कर्मकरानुपवदते-– उपसान्त्वयतीत्यर्थः । वदते शास्त्रे — जानाति वदितुमित्यर्थः । क्षेत्रे वदते – क्षेत्रविषयकमुत्साहमाविष्करोतीत्यर्थः । क्षेत्रे विवदते – वैमत्येन कलहायते इत्यर्थः । परदारान् उपवदते-रहस्युपच्छन्दयतीत्यर्थः । ९३६ | व्यक्तवाचां समुच्चारणे । (१-३-४८) मनुष्यादीनां संभूयोच्चारणे वदेस्तङानौ । यथा - — सम्प्रवदन्ते ब्राह्मणाः । अव्यक्तवाचां तु सम्प्रवदन्ति कुक्कुटाः । ९३७ । अनोरकर्मकात् । (१-३-४९) २. ३. ४. ६. अनुवदते कठः कलापस्य । ९३८ । विभाषा विमलापे । (१-३-५०) विप्रवदन्ते, विप्रवदन्ति वा मौहूर्तिकाः । परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः । ९३९ । अवाद् ग्रः । (१-३-५१) अवगिरते । ९४० । समः प्रतिज्ञाने । (१-३-५२) प्र इत्येव । शब्दं नित्यं सङ्गिरते । ९४१ । उदश्वरस्सकर्मकात् । (१-३-५३) धर्ममुच्चरते-उल्लङ्घय गच्छतीत्यर्थः । अकर्मकात्तु बाष्पमुच्चरति उद्गच्छतीत्यर्थः । ९४२ । समस्तृतीयायुक्तात् । (१-३-५४) DF रथेन सञ्चरते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०५&oldid=347679" इत्यस्माद् प्रतिप्राप्तम्