पृष्ठम्:Laghu paniniyam vol1.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदव्यवस्था] परिनिष्ठाकाण्डः । २८५ - आचार्यकरणमाचार्यत्वसम्पादनम् । माणवकमुपनयते – स्वसमीपं प्रापय्य संस्कारपूर्व वेदमुपदिशतीत्यर्थः । ज्ञानं निश्चयः – तत्वं नयते । भृति- वेतनम् । कर्मकरानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगण- नमृणादेर्निर्यातनम् । करं विनयते – देयशेषं परिशोधयतीत्यर्थः । व्ययो धर्मादिषु विनियोगः । शतं विनयते – विनियुङ्क इत्यर्थः । — - ९२५ । कर्तृस्थे चाशरीरे कर्मणि । (१-३-३७) नियो यः कर्ता लकारवाच्यः तत्स्थं चेत् नयतेः कर्म तदा आत्मनेपदं स्यात् । तच्च कर्म शरीरावयवभिन्नं चेत् । यथा—मन्युं विनयते । शरीरावयवे तु गडुं विनयति । अपनयतीत्यर्थः ॥ ९२६ । वृत्तिसर्गतायनेषु क्रमः । (१-३-३८) वृत्तिरप्रतिबन्धः ।—शास्त्रे क्रमते बुद्धिः । सर्ग उत्साहः । अध्ययनाय क्रमते । तायनं - स्फीतता । अस्मिन् शास्त्राणि क्रमन्ते । ९२७ । उपपराभ्याम् । (१-३-३९) उपक्रमते—चिकित्सितुं प्रवर्तते इत्यर्थः । पराक्रमते । ९२८ । आङ उद्गमने । (१-३-४०) 'ज्योतिरुद्गमन' एवेति कात्यायनः । आक्रमते सूर्यः ॥ 6 ९२९ । वेः पादविहरणे । (१-३-४१) साधु विक्रमते वाजी । ९३० । प्रोपाभ्यां समर्थाभ्याम् । (१-३-४२) समर्थौ तुल्यार्थौ । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते—उपक्रमते ॥ ९३१ । अनुपसर्गाद्वा । (१-३-४३) । कामति, क्रमते । ९३२ । अपनवे ज्ञः । (१-३-४४) शतमपजानीते — अपलपतीत्यर्थः । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०४&oldid=347678" इत्यस्माद् प्रतिप्राप्तम्