पृष्ठम्:Laghu paniniyam vol1.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वार्थिकप्रत्ययाः] परिनिष्ठाकाण्डः । २५९ हेतुमण्णिचि दर्शितैव प्रक्रिया । कथ वाक्यप्रबन्धे, गण संख्याने, कल गतौ संख्याने च, मह पूजायां, ध्वन शब्दे इत्यादयः केचिद्धात- चोऽत्र अदन्ताः पठ्यन्ते । तेषां णिचि ‘अतो लोप:' (८०७) इत्यकारो लुप्यते च । लुप्तस्य तस्य स्थानिवद्भावात् पूर्वस्य अकारस्य उपधात्वा- सम्भवेन 'अत उपधायाः' (७३४) इति वृद्धिर्न भवति । अग्लोपात् ह्रस्वसन्वद्भावयोर्निषेधः इत्यादि प्रयोजनमदन्तत्वकल्पनस्य । कथयति, अचकथत् । गणयति, अजीगणत् [अत्र ' ई च गण:' (६३८) इत्यभ्यासस्य ईत्वम्] । महयति, अममहत् । ध्वनयति । अदध्वनत् । इत्यादि । अन्येषां तु श्रण दाने – विश्राणयति । व्यशिश्रणत् । तुल उन्माने –तोलयति- अतूतुलत् इत्यादि ॥ - अथ केचिच्चुरादावन्यत्रापि मित्संज्ञकाः सन्ति धातवः । तेषामपि णिचि ह्रस्वो विधीयते । यथा - - - चुरादौ 'ज्ञप मिञ्च' । भूवादौ (१) घटादयो मितः । (२) जनी - जृष्-क्नसु -रञ्जोऽमन्ताश्च । (३) ज्वलहलालनमामनुपसर्गाद्वा । (४) ग्ला - स्ना - वनु - वमां च । (५) न कम्यमिचमां । (६) शमो दर्शने । (७) यमोऽपरिवेषणे । (८) स्खदिरवपरिभ्यां च इति गणसूत्राणि पठ्यन्ते ॥ ८३५ । मितां ह्रस्व: (ौ) । (६-४-९२) मितां धातूनां णौ परे उपधाया ह्रस्वः । यथा— ज्ञप – ज्ञपयति — अजिज्ञपत् [अग्लोपाभावात् सन्वद्भाव ] -घटयति – अजीघटत् । घटादिः हेतुमण्णिच् । घट- - त्वरा सम्भ्रमे – त्वरयति - (१) (२) जनी प्रादुर्भावे - जनयति — अतत्वरत् । — अजीजनत् लृष्— जरयति — अजीजरत् १. स्थानिवद्भावविधिनिषेधौ मिश्रप्रकरणे वक्ष्यामः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७८&oldid=347649" इत्यस्माद् प्रतिप्राप्तम्