पृष्ठम्:Laghu paniniyam vol1.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ लघुपाणिनीये [स्वार्थिकप्रत्ययाः यकि लिङि चोत्तरसूत्रेण ‘रिङ्शयग्लिङ्ङ्क्षु' इत्यनेन रीङपवादो रिङ् । तच्च सूत्रं शविकरणे व्याख्यातम् || ८३१ । घु-मा- स्था- गा पा - जहाति - सां हलि । (६-४-६६) - - ईत् क्ङित्यार्धधातुके इत्यनुवर्तते । घुसंज्ञानां मास्थादीनां च हलादौ किङत्यार्धधातुके ईकारोऽन्तादेशः । यथा— -पेपीयते । - दा— देदीयते । — देवीयते । धा- ८ मा- - मेमीयते । स्था— तेष्ठीयते । पा- गा— जेगीयते। - हा— जेहीयते । सा— सेसीयते । स्वार्थिकप्रत्ययाः ॥ ८३२ । गुप्तिज् किद्भयः सन् | (३-१-५) ८३३ । मान्- बध-दान्-शान्भ्यो दीर्घचाभ्यासस्य । (३-१-६) गुपादिभ्य: स्वार्थे सन्, मानादीनामभ्यासदीर्घश्च । अत्रार्थ- नियमं करोति कात्यायनः—गुपेर्निन्दायाम् । तिजेः क्षमायाम् । किते- र्व्याधिमतीकारे, निग्रहेऽपनयने, नाशने, संशये च । मानेर्जिज्ञासा- याम् । बधेश्चित्तविकारे । दानेरार्जवे । शानेर्निशाने इति । यथा— जुगुप्सते । तितिक्षत । चिकित्सति विचिकित्सति । - मीमांसते । बीभत्सत । दीदांसते दीदांसति । शीशांसते शीशांसति । ८३४ । सत्याप - पाश रूप - वीणा - तूल - श्लोक-सेना- लोम- त्वच वर्म वर्ण चूर्ण - चुरादिभ्यो णिच् । (३-१-२५) सत्यादिभ्यः प्रातिपदिकेभ्यः उचितधात्वर्थे, चुरादिगणात् स्वार्थे च णिच् । सत्यादिभ्यः 'प्रातिपदिकाद्धात्वर्थे...' इति गणसूत्रेणैव सिद्धे इह ग्रहणं निदर्शनार्थम् । सत्यादीन् उक्तगणसूत्रव्याख्याने उदा- हरिष्यामः ।। - चुर – स्तेये -- चोरयति-ते । चोरयाञ्चकार - चक्रे - बभूव - आस । अचूचुरत्-त । आस । अनुचुरत् इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७७&oldid=347648" इत्यस्माद् प्रतिप्राप्तम्