पृष्ठम्:Laghu paniniyam vol1.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ लघुपाणिनीये ७८५ । विभाषापः । (६-४-५७) आप्नोतेयपि णेरयादेशो वा । प्रापय्य । प्राप्य । ] णे: प्रकृत- त्वात् तस्यादेशाः सर्वेऽप्यत्रैवोक्ताः । आशीर्लिङि परस्मैपदानाम् इड- भावात् ‘णेरनिटि' इति णिलोपः ॥ कार्यात् कार्यास्ताम् । तङि–कारयिषीष्ट । पच–‘अत उपधायाः' (७३४) इति उपधावृद्धिः, पाचयति-ते पाचयिता पाचयिष्यति-ते । पाचयामास अपीपचत्-त । रभ- ‘रभेरशब्लिटो:' (५२१) इति नुम् । आरम्भयति-ते । इत्यादि । एवं लभेः लम्भयति–ते इत्यादि । ७८६ । अर्तिहीव्लीरीक्नूयीक्ष्माय्यातां पुक् णौ । (७-३-३६) अर्त्यादीनामाकारान्तानां च पुगागमो णौ । यथा- आत्- - [सार्थको णिच् ऋ -अर्पि अर्पयति आर्पिपत् । ही — हेपि हेपयति आजहिपत् । या- –यापि – यापयति । (७३०) स्था — स्थापि — स्थापयति अतिष्ठिपत् । - ७८७ । शा छा - सा ह्वा · व्या वेपां युक् । (७-३-३७) - - एषामादन्तत्वात् पुकि प्राप्ते युक् । यथा - शा-निशाययति छा- छाययति सा— अवसाययति ह्वा — ह्वाययति पातेलुग्वक्तव्य इति वार्त्तिकाल्लुगागमः । वेञः 'आदेच......' (७९४) वक्ष्यमाण आदादेशः । व्या–संव्याययति । वे – वाययति । पा पाने –पाययति । अपीप्यत् । पा रक्षणे – पालयति । [(७२९) । ७८८ । वो विधूनने जुक् । (७-३-३८) वा वाने इत्यस्य कम्पनेऽर्थे जुक् । अन्यत्र पुगेव । यथा- पक्षणोपवीजयाते, अन्यत्र तु केशानावापयति । ७८९ । लीलोनुग्लुकावन्यतरस्यां स्नेहविपातने । (७-३-३९) लीयतेतेश्च क्रमात् नुग्लुकावागमौ वा णौ स्नेहनवेऽर्थे । विलीनयति, विलाययति, विलालयति । विलापयति वा घृतम् यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६७&oldid=347638" इत्यस्माद् प्रतिप्राप्तम्