पृष्ठम्:Laghu paniniyam vol1.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सार्थको णिच्] परिनिष्ठाकाण्ड: । इगन्तस्य 'कारि ' इति धातोर्गुणः, 'कारय' इति विकरणप्रत्ययान्तं लट् - लङ् - लोट् - लिङामङ्गम् । ततः— २४७ Phospine कारयति कारयतः कारयन्ति । कारयसि कारयथः कारयथ । कारयामि कारयावः कारयामः । इति नयतिवद्रूपाणि । तडि — कारयते कारयेत कारयन्ते । कारयसे MOTO कारयेथे कारयध्वे । कारये कारयावहे कारयामहे । FIPIH इति नयतिवदेव रूपाणि । णिजन्ता: सामान्येनोभयपदिनः ॥ VSTRIP लङि–अकारयत् अकारयताम् । अकारयत अकारयेताम् इत्यादि । लोटि – कारयतु–ताम् । कारयेत्-त इत्यादि । एकाचामेव (६७२) इण्निषेधात् व्युत्पन्ना धातवः सेट एव ॥e by ऌटि – कारयिष्यति–त । ऌांङ – अकारयिष्यत्-त । CON त्-त । लुटि–कारयितासि—से । लुङि – ‘णिश्रि.......' (४५८) इति चङ् । चङि परे— १० ७८१ । णेरनिटि (लोप आर्धधातुके) । (६-४-५१) अनिडादावार्धधातुके परे णेर्लोपः ॥ , [ ७८२ । निष्ठायाम् सेटि । (६-४-५२) सेटि निष्ठायामपि णेर्लोप: । निष्ठा नाम क्तक्तवतू कृत्प्रत्ययौ । कारि + इत = कारित । कारि + इतवत् = कारितवत् । इति णिलोप: । ] प्रकृते णौ लुप्ते अचीकरत्-त । लुङ्प्रक्रिया दृश्यताम् ॥ (१) लिटि अनेकाच्त्वादामेव । आमि परे – ७८३ । अयामन्ताल्वाय्येत्न्विष्णुषु । (६-४-५५) आम्, अन्त, आलु, आय्य, इत्नु, इष्णु एषु परेषु णेरयादेशो लोपापवादः । इति णेरयादेशः ।। कारयाञ्चकार, चक्रे, -बभूव, आस । - [७८४ । ल्यपि लघुपूर्वात् । (६-४-५६) pos लघुपूर्वात् परस्य णेरयादेशो ल्यपि । क्त्वादेशो ल्यप् वक्ष्यते । प्रशमि + य = प्रशमय्य । विगणि + य = विगणय्य | इति लोप एवं F प्रत्यु० – ('लघुपूर्वात्' किम् ?) प्रपांति + य = प्रपात्य इति लोप, एव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६६&oldid=347636" इत्यस्माद् प्रतिप्राप्तम्