पृष्ठम्:Laghu paniniyam vol1.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिट् ] परिनिष्ठाकाण्डः । ७४७ । इजादेव गुरुमतोऽनृच्छ: । (३-१-३६) इजादियों धातुर्गुरुमान् ऋच्छतिवर्जितस्तस्माच लिट्याम् || ७४८ । दयायासश्च । (३-१-३७) दय दानगतिरक्षणेषु, अय गतौ, आस उपवेशने - एभ्यश्च लिव्याम् । ७४९। उषविदजागृभ्योऽन्यतरस्याम् । (३-१-३८) उष दाहे, विद ज्ञाने, जागृ, निद्राक्षये – एभ्यो लिब्याम् वा । ७५० । भीहीभृहुवां श्लुवच्च । (३-१-३९) एभ्यो लिट्याम् वा । तदा श्लाविव कार्य च । आमि धातोर्द्वित्वमपि स्या- दित्यर्थः । ECTESTRY आमि कृते लिट एव लोप उक्तः । यथा- - २३९ ७५१ । आमः (लेर्लुक्) । (२-४-८१) आमः परस्य ले: (लिट:) लुक् स्यात् । लिटि लुप्ते आमन्तं मान्तकृदन्तमित्यव्ययम् । तस्मात् सुपि लुकि पदसंज्ञा । अथ कथमस्य पुरुषवचनव्यक्तिरित्यत आह - - ७५२ । कृञ्चानुप्रयुज्यते लिटि । (३-१-४०) लिटि कृञ् = लिट्परः कृञ् = लिडन्तः कृञ् इत्यर्थः । पुरुष-

वचनविवेचनाय आमन्तात् पराणि कृञ्धातोर्लिंटि रूपाण्यनुप्रयुज्यन्ते । कृञ उभयपदित्वात् कतरत्पदं ग्राह्यमित्याकाङ्क्षायाम्- ७५३ । आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । (१-३-६३) आम्प्रत्यय आम्प्रत्ययान्तः । तस्येव तद्वत् । आम्प्रत्ययान्तस्य धातोरिवानुप्रयोगस्य कृञः पदं बोध्यम् । इति पदव्यवस्थोक्ता । इह कृञ् ग्रहणादनुप्रयोगोऽन्यस्याप्यस्तीति ज्ञायते । कस्यान्यस्येति पर्यालोच- नायां 'कृथ्व' इति चकारादनुक्तसमुच्चयार्थकात्, यथा कृन् तथा सामान्यबाची धातुरन्योऽपि अनुप्रयुज्यत इति गम्यते । सामान्यवाचिषु च कृभ्वस्तयः प्रधानम् । 'कृभ्वस्तियोगे सम्पद्यकर्तरि च्वि:' (१५४०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५८&oldid=347627" इत्यस्माद् प्रतिप्राप्तम्