पृष्ठम्:Laghu paniniyam vol1.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [लिट् गम्ल गतौ – (५६०) जगाम जग्मतुः जग्मुः । जगमिथ जगन्थ । हन - (५६०-१-२) जघान जन्नतुः जघ्नुः । जघनिथ जघन्थ । भू–‘भवतेरः’ (६१७) ‘भुवो वुग्लुङ्लिटोः' (७१०) बभूव बभूवतुः बभूवुः । बभूविथ ॥ STEE TEE २३६ या - यया + अ इति स्थिते- 1 FEET FE ७३६ । आत औ णलः । (७-१-३४) आकारान्ताद्धातोः परख गल औ इत्यादेशः । ययौ । यया + अतुस् इत्यत्र ‘आतो लोप इटि च' (७२०) इत्याल्लोप ययतुः ययुः । इटि परे अल्लोपः, ययिथ, ययाथ ययथुः यय । ययौ ययिव ययिम || ७३७ । ऋतश्च संयोगादेर्गुणः (लिटि) । (७-४-१०) संयोगादेरृदन्तस्याङ्गस्य गुणो लिटि । कित्त्वेन प्रतिषिद्धस्य गुणस्यावसरप्रदानमात्रमेतत् । अतो गलि णित्त्वप्रयुक्ता वृद्धिरेव । गुणा- नन्तरं 'अत उपधायाः' इति वृद्धिर्वा ॥ स्मृ – सस्मार सस्मरतुः सस्मरुः । सस्मर्थ । ७३८ । ऋच्छत्यताम् । (७-४-११) ऋच्छतेः ऋधातोः ऋकारान्तानां च लिटि गुणः । ऋच्छ आनछे आनछेतुः आनछु: । आनच्छिथ । - ॠ - कृ - चकार चकरतुः चकरुः । चकरिथ । ७३९ । अत एकहल्मध्येऽनादेशादेर्लिंटि । (६-४-१२०) एदभ्यासलोपः किति इति पदवयमनुवर्तते । आदेश आदिर्यस्य न भवति सोऽनादेशादिः । इह लिटि द्वित्वम् अभ्यासस्य जश्त्वचर्वे चुत्वं च आदेशा भवन्ति । यस्य जश्त्वचवचुत्वानामवकाशः सोऽलादे- शादिः । जश्त्वचर्त्वयोश्च झशां जशः, खरां चरः इति व्यवस्था कृता । तत्र जश एव स्थाने जश् चय एव स्थाने चय् प्रवर्तमानस्तु आदेशत्वेन न गृह्यते । 'न शशददवादिगुणानाम्' इति शसददोर्निषेधारम्भ एव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५५&oldid=347624" इत्यस्माद् प्रतिप्राप्तम्