पृष्ठम्:Laghu paniniyam vol1.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिट् ] परिनिष्ठाकाण्डः । ७३३ । णलुत्तमो वा (णित्) । (७-१-९१) - इति णित्वस्य विकल्पनात् णित्त्वपक्षे वृद्धि:, तदभावे गुण:- चकार चकर; चकृव चकृम । तङि——–चक्रे चक्राते चक्रिरे । चकृषे चक्राथे चकूे [‘इण: षीध्वंलुङ्लिटां घोऽङ्गात्' (३८८) इति मूर्धन्यो ढः ] । चक्रे चक्रवहे चक्रमहे ।। गद व्यक्तायां वाचि ७३४ । अत उपधायाः । (७-२-११६) ‘अचो णिति' इत्यतोऽनन्तरं सूत्रमिदम् । उपधाया अकारस्य वृद्धिः स्यात् निति णिति च प्रत्यये परे । इत्यनेन वृद्धिः- जगाद जगदतुः जगदु: सेट्त्वात् कादिनियमस्य नावकाशः, जगदिथ जगदथुः जगद | जगाद जगद जगदिव जगदिम । णीज् प्रापणे – निनाय । ‘एरनेकाच' (३६७) इति यण्, निन्यतुः निन्युः । भारद्वाजनियमादिड्डा । निनयिथ, निनेथ, निन्यथुः, निन्य । निनाय निनय । क्रादिनियमान्नित्यमिट्, निन्यिव निन्यिम । तङि– निन्ये निन्याते निन्यिरे। निन्यिषे निन्याथे निन्यिध्वे, निन्यिदे, ‘विभाषेटः’ (३८९) इति वा मूर्धन्यो ढः । निन्ये निन्यिवहे निन्यिमहे ॥ इष इच्छायां— द्वितीय स्यैकाचोऽभावात् प्रथमस्यैव द्वित्वं, इ + इष-गुणः, इ+एष। अत्र अभ्यासस्याङ्गत्वाभावादप्राप्त इयङ् विधीयते - अनुधातु...' इत्यतोऽनन्तरं सूत्रम्- - अचि - -- 6 ७३५ । अभ्यासस्यासवर्णे । (६-४-७८) अभ्यासस्य इवर्णोवर्णयोरियडुवडौ स्तः असवर्णे अचि परे । अनेन एकवचनेषु इयङ् इयेष ईषतुः ईषुः । इयेषिथ ॥ ऋच्छ गतौ-द्वित्वे–‘उरत्' (६१०), ‘अत आदेः' (६१४) दीर्घ, 'तस्मा- न्नुड् द्विहलः’, आनर्च्छ । आनर्च्छतुः । ‘ऋच्छत्यृताम्' (७३ ८) इति वक्ष्यमाणो गुणः ॥ युत- दिद्युते । स्वप - सुष्वाप | कित्त्वात् 'वचिस्खपि...’ इति संप्रसारणं सुषुपतुः, सुषुपुः । व्यथ-विव्यथे । इण्-द्वित्वं-वृद्ध्यायादेशौ अभ्यासस्यैयङ् इयाय । इ + यतुस् इति स्थिते 'दीर्घ इणः किति ' (६१३) इत्यभ्यासदीर्घः, ईयतुः ईयुः । इयेथ, इययिथ ईयथुः ईय। इयाय, इयय ईयिव ईयिम ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५४&oldid=347623" इत्यस्माद् प्रतिप्राप्तम्