पृष्ठम्:Laghu paniniyam vol1.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चङ्-संस्करणम् ] परिनिष्ठाकाण्डः । २३३ करत् अचीकरत | पच-णिचि 'अत उपधायाः' इति वृद्धिः, पाचि—णौ चङ्युपधाया ह्रखः— पचि + अ – द्वित्वं-पपचि + अ - णिलोपः– पपच् + अ । सन्वद्भावे इत्वदीर्घौ — अपीपचत्त ॥ - , ७२७ । नाग्लोपिशास्वृदिताम् । (७-४-२) अग्लोपिनामङ्गानां शास्तेर्ऋदितां च णौ चङ्युपधाया ह्रस्वो न । अक् प्रत्याहारः, तल्लोपवन्तः अग्लोपिनः । इह हि चुरादौ कथादिरन्त- र्गणः । तत्र पठिता धातवः अकारान्ताः । अकारस्य च णिचि कृते 'अतो लोपः' इति लोपो भवति । एवं कथादयोऽग्लोपिनः । किं च 'प्राति- पदिकाद्धात्वर्थे........' इति चुराद्यन्तर्गतगणसूत्रेण प्रातिपदिकेभ्योऽपि णिच् विधीयते । तत्र च टिलोपवचनात् अगन्तानाम् अग्लोपो भवति । ईदृशान्यङ्गान्यत्र ‘अग्लोपि' शब्देन ग्राह्याणि । 'सन्वल्लघुनि चङ्- - परेऽनग्लोप' इति निषेधश्च ईदृशानां यातूनामेव । तथा च अगन्तनाम- धातूनां कथादीनां ऋदितां च णौ 'चङ्युपधाया ह्रस्वः, सन्वद्भावः, लघोरभ्यासस्य दीर्घः' इति त्रयं न भवति । इद्रूपस्य तु अको लोपो न पर्याप्तः । अत एव 'ऋदितां' पृथभिषेध आरभ्यते । यथा— अग्लोपिषु (१) कथादि —सूच-असुसूचत् । केत-अचिकेतत् । (२) नामधातुः माला-अममालत् । मातृ-अममातत् । शास्- अशशासत् । ऋदित् – नाथू-अननाथत् । ढाक्कृ-अडढौकत् । - ७२८ । भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् । (७-४-३) एषां वा चड्युपधाया ह्रस्वः । यथा - भ्राज – अबिभ्रजत्, अबभ्राजत् । - भास - अबीभसत्, अबभासत् । - भाष - अबीभषत्, अबभाषत्, इत्यादि । - ७२९ । लोपः पिबतेरीच्चाभ्यासस्य । (७-४-४) पिबतेण पायि- पीप् य + अत्—अपीप्यत् ।

चड्युपधाया लोपः, अभ्यासस्य ईत्वं च । यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५२&oldid=347621" इत्यस्माद् प्रतिप्राप्तम्