पृष्ठम्:Laghu paniniyam vol1.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये चङ् संस्करणम् ॥ refores -अयं 'णिश्रिदुस्रुभ्य' (४५८) इति सूत्रेण विधीयते । श्रि, दु, स्रु इति केवलधातुभ्यो णिजन्तेभ्यश्च भवति । ‘चङि' इति द्वित्वं चोक्तम् । चकारस्य इत्त्वात् 'अ' इत्येव प्रत्ययः ।। श्रि — द्वित्वम्, अभ्यासकार्य, गुणाभावादियङ्- अशिश्रियत् । अशिश्रियताम् अशिश्रियन् | अशिश्रियः इत्यादि । एवमेव- PINA २३२ [चङ्-संस्करणम् द्रु—अदुद्रुवत् अदुद्रुवताम् । स्रु– असुस्रुवत् असुस्रुवताम् इत्यादि । ण्यन्तानां—याच्–णिचि कृते (याच् + इ ) याचि इति णिजन्तो धातुः । चङि कृते द्वित्वे अययाचि + अत् इति जाते ‘णेरनिटि' (७८१) इति वक्ष्यमाणो णेर्लोपः अययावत् । एवं शास्- अशशासत्, राज्— अरराजत् इत्यादि । - अथ चङि केषांचिण्णिजन्तानाम् उपधाहस्वो विधीयते- ७२६ । णौ चड्युपधाया हस्वः । (७-४-१) - ‘अङ्गस्य ' -इत्यधिकारो वर्तते । णौ परे तस्माच्च चङि परे यदङ्गं (णि प्रयुक्तं) तस्योपधाया हस्व: स्यात् । णौ हि परे लघूपध- गुणेन, णित्वप्रयुक्ताभ्यां 'अचो णिति' (२८२) 'अत उपधाया: ' (७३४) इति वृद्धिभ्यां च अङ्गस्य उपधाया दीर्घता भवति । तस्यानेन ह्रस्वो विधीयते । यथा- - - चुर् - णिचि लघूपधगुणे चोरि – प्रस्तुतसूत्रेण चङि ह्रखः । • चुरि + अ-द्वित्वं, चुचुरि + अ-णिलोपः, चुचुर् + अ-सम्ब- द्भावात् (६३४), 'दीर्घो लघो:, (६३५) इत्यभ्यासदीर्घः ॥ - अचूचुरत् अचूचुरताम् अचूचुरन् । अचूचुरः अचूचुरतम् इत्यादि । कृ---णिचि 'अचो णिति' इति वृद्धि -कारि-चाङ ह्रखर, कारि + अ-द्वित्व- मभ्यासकार्ये च चकरि +अ-णिलोपः, चकर् + अ सन्वद्भावादित्वं, दीर्घश्च-अची

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५१&oldid=347620" इत्यस्माद् प्रतिप्राप्तम्