पृष्ठम्:Laghu paniniyam vol1.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्सः संस्करणम् ] परिनिष्ठाकाण्ड: । ७१३ । श्लिष आलिङ्गने । (३-१-४६) लिष आलिङ्गनार्थे एव क्स इति नियमात्, ७१४ । न दृशः । (३-१-४७) इति दृशेर्निषेधाच्च द्वाविंशतेर्धातुभ्यो नित्यं चले: क्सादेशः । ककार एव इत् । स इति अकारान्तः प्रत्ययः । क्सस्य चैतौ विशेषावुक्तौ– ७१५ | क्सस्याचि (लोपः) । (७-३-७२) क्सय अजादौ प्रत्यये परे अन्त्यलोप: स्यात् । अनेन आताम्, आथामित्यनयोः ‘आतो ङित: ' (५०९) इति इयादेशो न भवति । झप्रत्यये तु 'अन्त' इत्यादेशादनन्तरमेव प्रत्ययस्याजादित्वलाभ इति ‘अत' इत्यादेशस्य न प्रसक्तिः ॥ VERITA ७१६ । लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । (७-३-७३) एषां दन्त्यादावात्मनेपदे परे क्सस्य वा लुक् । दन्त्यादयश्च त, थास्, ध्वं, वहि—इति चत्वारः प्रत्ययाः । अथोदाहराम:- (१) क्रुश, परस्मैपदी ॥ PIST - २२९ 'छशां षः' इति षत्वं, 'षढोः कः सि' इति कत्वं, तस्य मूर्धन्यादेशश्च भवन्ति । कित्त्वात् गुणनिषेधः ॥ अक्रुक्षत् अक्रुक्षताम् अक्रुक्षन् । अक्रुक्षः अक्रुक्षतम् अक्रुक्षत । अक्रुक्षम् अकुक्षाव अक्रुक्षाम । (२) लिह-अलिक्षत् अलिक्षतामित्यादि शादिवदेव || तङि तु – अलिक्षत, - अलीढ अलिक्षाताम् अलिक्षन्त । CUTR अलिक्षथाः, अलीढाः अलिक्षाथाम् अलिक्षध्वम् अलीढम् । अलिक्षि अलिक्षावहि, अलिहहि अलिक्षामहि । एवमेव दिह, दुह, गुहामपि, भष्भावमात्रं विशेषः

अधुक्षत अदुग्ध अधुक्षाताम् अधुक्षन्त इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४८&oldid=347617" इत्यस्माद् प्रतिप्राप्तम्