पृष्ठम्:Laghu paniniyam vol1.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ‘गा गाने' 'पा रक्षणे' इत्यनयोरत्राग्रहणात् अगासीत् अगासिष्टाम् । अपासीत् अपासिष्टाम् । FOLTE इति सगिडागमावेव ॥ २२८ ७११ । विभाषा घ्रा-धेट्-शा-छा-सः । (२-४-७८) एभ्यः परस्मैपदेषु वा सिचो लुक् । एषु धेट: 'आदेच उपदेशे- ऽशिति,' इति वक्ष्यमाणेन आत्वेन आदन्तत्वे धारूपत्वात् घुसंज्ञायां पूर्वसूत्रेणैव सिज्लुकि सिद्धे विकल्पार्थमारम्भः घ्रा - अघ्रात् घे – अधात् - शा-अशात् एवमन्येषामपि ॥ अघ्राताम् । अधाताम् । अशाताम् । अघ्रासीत् अधासीत् अशासीत् [क्स: संस्करणम् । यथा— - अघ्रासिष्टाम् । अधासिष्टाम् । अशासिष्टाम् । - तन – अतत, अतनिष्ट अतनिषाताम् अतनिषत । अतथाः, अतनिष्ठाः अतनिषाथाम् अतनिध्वम् । एवमन्येषामपि तनादीनाम् ॥ क्सः संस्करणम् ॥ ७१२ । तनादिभ्यस्तथासोः । (२-४-७९) तनादिभ्यः सिचो वा लुक् तथासोः परयोः । सिज्लोपे ' अनु- दात्तोपदेश......’ (५५९) इति नलोपः ।। नपुर


, 'शल इगुपधादनिट: क्स: (४५७) इति शलन्तस्य इगुपध- स्यानिटो धातोः क्सो विहितः । ईदृशश्च क्रुश, दिश, दृश, मृश, रिश, रुश, लिश, विश, स्पृश- इति शान्तेषु नव । कृष, त्विष, तुष, द्विष, दुष, विष, शुष, लिष, पुष्, शिष्-इति षान्तेषु दश । दिह, दुह, मिह, रुह, लिह— इति हान्तेषु पञ्च । इत्येवमाहत्य चतुर्विंशतिर्धातवः सन्ति । तेषु-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४७&oldid=347616" इत्यस्माद् प्रतिप्राप्तम्