पृष्ठम्:Laghu paniniyam vol1.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ लघुपाणिनीये - यथा - कृ कृषीष्ट, अकृत, अकृषाताम् । हृ - हृषीष्ट, अहृषाताम् । प्रत्यु० – ('झलादी' किम् ?) वॄ-वरिषीष्ट अवरिष्ट-अवरीष्ट । ६९५ । वा गमः । (१-२-१३) गमः परौ लिसिचावात्मनेपदेषु वा कितौ । गमेः परस्मैपदित्वेऽप्युपसर्ग- वशात् आत्मनेपदम् । कित्त्वे 'अनुदात्तोपदेश...' (५५९) इत्यनुनासिकलोपः । यथा – सङ्गसीष्ट, सङ्गंसीष्ट । समगत, समगंस्त । ६९६ । हनः सिच् । (१-२-१४) हन्तेः पर आत्मनेपदसिच् कित् स्यात् । 'आङो यमहन' इत्यात्मनेपदम् । यथा— आहत आहसाताम् आहसत । अत्रापि नलोपः कित्त्वप्रयोजनम् । ६९७ । यमो गन्धने । (१-२-१५) --- [सिचि वृद्धिः ६९८ । विभाषोपयमने । (१-२-१६) यमधातोरात्मनेपदे सिच् गन्धनार्थे नित्यम्, उपयमनार्थे विकल्पेन च कित् स्यात् । गन्धनं सूचनं परेण प्रच्छाद्यमानस्य दोषस्याविष्करणम् । उपयमनं विवाहः। यथा- -उदायत उदायसाताम् उदायसत- सूचनार्थे । अन्यत्र उदायंस्त पादम् उत्क्षेपणमत्रार्थः । उपायंस्त उपायत वा कन्याम् । अनुनासिकलोपे ह्रस्वादङ्गादिति सलोपः । ६९९ । स्थाध्वोरिच्च । (१-२-१७) स्थाधातोः घुसंज्ञकानां च अत्मनेपदे सिच् कित् स्यात् । तत्सं- - नियोगेन धातोरिकारोऽन्तादेशश्च । यथा - - स्था — प्रास्थित प्रास्थिषाताम् प्रास्थिषत । दा - अदित अदिषाताम् अदिषत । धा - अधित अधिषाताम् अधिषत | सिचि वृद्धिः ॥ - ७०० । सिचि वृद्धिः परस्मैपदेषु । (७-२-१) इगन्ताङ्गस्य वृद्धिः, सिचि परस्मैपदेषु । यथा - जि- अजैषीत्, अजैष्टाम् । नी – अनैषीत्, अनैष्टाम् । हु - अहौषीत्, अहौष्टाम् । लू – अलावीत्, अलाविष्टाम् । कृ — अकार्षीत्, अकाम् । तृ – अतारीत्, अतारिष्टाम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४३&oldid=347612" इत्यस्माद् प्रतिप्राप्तम्