पृष्ठम्:Laghu paniniyam vol1.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कित्त्व-प्र० ] परिनिष्ठाकाण्डः । ६९० । रुदविदमुषग्रहिस्खपिप्रच्छः संश्च । (१-२-८) एभ्यः सन् क्त्वा च कितौ स्याताम् । यथा- रुदित्वा, रुरुदिषति गृहीत्वा, सुप्त्वा, विदित्वा, विविदिषति मुषित्वा, मुमुषिषति पृष्ट्वा, ६९१ । इको झल् । (१-२-९) इगन्तात् परो झलादिः सन् कित् स्यात् । अनिट: सनो ग्रह- णार्थ झलादिरिति । यथा- चि–चिचीषति । स्तु– तुष्टृषति । नी–निनीषति । भू – बुभूषति । - स्तः । यथा- — जिघृक्षति । सुषुप्सति । पिपृच्छिषति । कृ – चिकीर्षति । तृ – तितीर्षति । ६९२ | हलन्ताच्च । (१-२-१०) इकः इति पञ्चम्यन्तमनुवर्तते । तच्च हलो विशेषणम् । इक: परो यो हल् तदन्तादित्यर्थः । इक्पूर्वकहलन्ताद्धातो: झलादिस्सन् कित् स्यात् । यथा- - भिद्— बिभित्सति । बुध्- बुभुत्सते । दृश्– दिदृक्षते । प्रत्यु० – ('झलादिः' किम् ? ) वृत् - विवर्तिषते । शुभ – शुशोभिषते । ६९३ । लिङ्सिचावात्मनेपदेषु । (१-२-११) इक्पूर्वकहलन्ताद्धातोः परौ झलादी लिसिचावात्मनेपदेषु कितौ २२३ (लिङि) भिद्—भित्सीष्ट । बुधू – भुत्सीष्ट । (लुङि) भिद – अभित्त, अभित्साताम् । बुध्— अबुद्ध, अभुत्साताम् । प्रत्यु० – ( 'झलादिः' किम् ?) वर्तिषीष्ट, अवर्तिष्ट । ('आत्मनेपदेषु' किम् ? ) अद्राक्षीत्, अस्नाक्षीत् । अब अकित्त्वात् ' सृजिदृशोर्झल्यमकिति' (६८२) इति अमागमः ॥ ६९४ । उश्च । (१-२-१२) ऋवर्णान्ताद्धातोः परौ झलादी लिङसिचौ आत्मनेपदेषु कितौ स्तः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४२&oldid=347611" इत्यस्माद् प्रतिप्राप्तम्