पृष्ठम्:Laghu paniniyam vol1.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लुङ्-सिजादिसं०] परिनिष्ठाकाण्ड: । ह्रस्वादङ्गात् परस्य सस्य लोपो झलि परे । अनेन ह्रस्वान्तधातू- नां तथासोः सिज्लोपस्यावकाशः || २२१ ६८६ । इट ईटि । (८-२-२८) इट: परस्य सस्य लोप ईटि परे । ‘अस्तिसिचोऽपृक्ते' (५७५) इत्यपृक्तप्रत्ययस्य ईड्डिधानात् सेड्धातूनां तिप्सिपोरनेन सिज्लोपः प्रस- ज्यते । सूत्रत्रयेणोक्त: सलोप: सिचसकारस्यैवेष्यते ॥ (१) दिवु क्रीडादौ, सेट् — धातोरट्, सिच इट् च । अदिव + इस् + त्-इति स्थिते सिज्निमित्तको लघूपधगुणः, अदेव् + इस् + त्- ' अस्तिसिचोऽपृक्ते' (५७५) इति तिप ईट्, अदेव् + इस् + ईत्- सकारस्य इडीटोर्मध्यगतत्वात् 'इट ईटि' (६८६) इति लोपः, तस्य ॥ 8 ॥ सिज्लोप एकादेशे सिद्धो वाच्यः ॥ इति वार्त्तिकेन सिद्धत्वात् सवर्णदीर्घः, अदेवीत् इति रूपसिद्धिः । अपृक्तप्रत्ययविरहादलुप्तस्य सिच: षत्वम, अदेविष्टाम् | ‘सिजभ्यस्त- विदिभ्यश्च' (४९८) इति झेर्जुस्- - अदेविषुः । अदेवी: अदेविष्टम् अदेविष्ट । अदेविषम् अदेविष्त्र अदेविष्म । (२) शुभ दीप्तौ सेट्, आत्मनेपदी – सिच इट्, लघूपधगुण:- अशोभिष्ट अशोभिषाताम् अशोभिषत । अशोभिष्ठाः अशोभिषाथाम् अशोभिध्वम् । (‘धि च' इति सलोप:) । अशोभिषि अशोभिष्वहि अशोभिष्महि । (३) क्षिप क्षेपे, अनि, परस्मैपदी-हलन्तस्यानिटो वक्ष्यमा- णो गुणापवादो वृद्धिः, अक्षैप्सीत् । 'झलो झलि' (६८४) इति सलोप:- - अक्षैप्ताम् अक्षैप्सुः । अक्षैप्सी: अक्षैप्तम् अक्षैप्त । अक्षैप्सम् अक्षैप्स्व अक्षैप्स्म । १. तां तं त इति परस्मैपदेषु गुणवृद्धिभ्यां ह्रस्वान्ताङ्गस्यासम्भवान्न तव प्रसक्तिः आत्मनेपदे तु सिचः कित्त्वविधानान्न गुणवृद्धी । अतस्तथासोरित्युक्तम् । व तल प्रसतिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४०&oldid=347609" इत्यस्माद् प्रतिप्राप्तम्