पृष्ठम्:Laghu paniniyam vol1.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [लुङ्-सिजादिसं० ६८३ । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५९) अनुदातेषु य ऋदुपधस्तस्य धातोश्च झलादावकित्यमागमो वा- तृप प्रीणने–रधादित्वाद्वेट्; इडभावे तासिर्झलादिर्भवति । तदा अम्, त्रप्ता, त्रप्तारौ । इट्पक्षे तु झलादित्व।भावात् अम् न । गुण:- तर्पिता-तर्पितारौ ; तप्र्ता-तप्र्तारौ । स्यप्रत्ययेऽप्येते विशेषा यथासंभवं उदाहार्याः । यथा—— -- स्रक्ष्यति, द्रक्ष्यति, त्रप्स्यति, तर्त्स्यति, तर्पिष्यति इत्यादि । २२० (८) मस्ज, (९) नश – संयोगादिलोपादिप्रक्रियार्थ मस्ज इति सोपधः पाठः। ‘झलां जश् झशि' इति जश्त्वेन जकारे च मज्ज इत्येव श्रूयते । ‘ मस्जिनशोर्झलि ' (५२०) इति नुम्, मन्ज्ज् + ता—— ‘झरो झरि सवर्णे' इति एकस्य जस्य लोपः, कुत्वम्, अनुखारपरसवर्णौ, मङ्का । एवम मङ्ख्यति इति ऌटि । नंष्टा नयति । रधादित्वेन वेट्त्वात् नशिता नशिष्यतीयपि । लुङ्-सिजा दिसंस्करणकः ।। लुङि (१) सिच् (२) सिज्लुक (३) क्स: (४) अङ् (५) चङ् इति च्लेरादेशभेदैः पञ्च संस्करणानि भवन्ति । तत्रौत्सर्गिकत्वात् शप्स्थानीयः सिच् । अन्ये श्यनादिवत् अपवादरूपाः ।। (१) सिच संस्करणम्- चकार इत्, इकार उच्चारणार्थ इत्यनयोर्लोपे स् इत्येव प्रत्ययः । आर्धधातुकत्वात् सेट्केषु धातुष्विट् । इडागमे च इणूपूर्वत्वात् षत्वम् । ‘धि च' (६८०) इत्युक्तेन सूत्रेण सिचो ध्वमि लोपो भवति । अन्ये- ऽपि लोपा उच्यन्ते - ६८४ । झलो झलि । (सख लोपः) । (८-२-२६) । झल: परस्य सस्य लोपो झलि परे । अनेन अनिटां झलन्तानां धातूनां तां - तं-त-त-थास् प्रत्ययेषु सिज्लोपो भवति ।। GिDF ६८५ । हस्वादङ्गात् । (८-२-२७)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३९&oldid=347608" इत्यस्माद् प्रतिप्राप्तम्